OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 29, 2018

पण्यरेलयानेन प्रेषितस्य उर्वरस्य  विशाखपट्टण-नगरात् उत्तरप्रदेशं प्राप्तुं वर्षचतुष्टयम्।

     नवदेहली > पण्यरेलयानेन प्रेषितं उर्वरकं विशाखपट्टणात् १३२६ कि.मी दूरं संचर्य उत्तरप्रदेशस्य बस्तिं प्राप्तुं वर्षचतुष्टयं स्वीचकार।  पी टी ऐ वार्तामाध्यमेन वार्ता मिमां प्रस्तुता।

      २०१४ नवंबर मासे १३१६ गोणीमितम् अमोणियम् फोस्फेट् प्रेषयतुं रेल्यानस्य कृते आरक्षणं कृतम्। किन्तु केवलं गतबुधवासरे सायं सार्धत्रिवादने एव रेलयानं बस्तीमध्ये प्राप्तम्। चतुर्दशलक्ष रूप्यकाणाम् उर्वरकं  तस्मिन् याने आसीत्। सामान्यतः ४२ होराः तथा १३ निमेषा‌ः च अस्य दूरस्य यात्रां कर्तुं पर्याप्तम्।

       कदाचित् पण्यवस्तूनि वोढुं रेल्यानानि सक्षमानि न भवन्ति। अत्रापि एतदेव अभवत् स्यादिति रेल्वे वक्ता सञ्जय् यादवः अवदत्।