OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 1, 2018

पञ्चवयस्कया द्विचक्रिका चालिता- पितुः यानचालनानुज्ञापत्रं स्तथगायिम्।
  कोच्ची> कोच्ची राजवीथिद्वारा पञ्चवयस्कायै पुत्रिकायै द्विचक्रिका चालनाय सन्दर्भं  प्रदत्तवान् इत्यस्मात् कारणात् पितुः यानचालनानुज्ञापत्रं निवारितम्। कोच्ची पल्लुरुत्ती देशीयः षिबु फ्रान्सिस् इत्याख्यः एव एवं गृहीतः। रविवासरे इडप्पल्ली नाम प्रदेशस्थ राजमार्गेण द्विचक्रिकायाम् गच्छन् आसीत्। तेन सह भार्या अपत्यद्वयं च आसन् । तस्मिन् सन्दर्भे पुरतः उपविशन्तीं पुत्रिकां यान चालनाय सन्दर्भं दत्तवान्। तदा पृष्टतः समागतः कश्चन यात्रिकः चलनखण्डं स्वीकृत्य सामूहिकमाध्यमेन प्रसारितम्।  दृष्ट्वैतत् यन्त्रवाहन -विभागाधिकारिणा तस्य यानचालनानुज्ञापत्रं स्थगायितम्