मुम्बई भीकराक्रमणस्य सूत्रधारः हाफिस् सयीदः पाकिस्थाने गृहीतः।
लाहोर् > २००८ तमे संवत्सरे मुम्बय्यां संवृत्तस्य भीकराक्रमणस्य सूत्रधारः , 'जमाअत्तुद्दव' नामकसंघटनस्य नायकश्च हाफिस् मुहम्मद् सयीद् नामकः पाकिस्थाने निगृहीतः।लाहोरतः गुज्रन्वालांप्रति गच्छति सति पाकिस्थानीयस्य पञ्चाब् आरक्षकैः एषः गृहीतः।OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Friday, July 19, 2019
मस्तिष्के निवेष्टुं नाडीबन्धिधित-सङ्गणकशलाका निर्मिता।
मस्तिष्कं यन्त्रान् च मिथः बन्धनीयः इति लक्ष्यीकृत्य इलोण् मस्कस्य नेतृत्वे आरब्धः अनुसन्धानयोजनाः सफलतां प्राप्स्यन्ते। केशादपि लघुतमा 'इलक्ट्रोड्' सूत्राणि उपयुज्य मनुष्यस्य मस्तिष्के सङ्गणक-शालाकायाः बन्धनं कुर्वन्ति। काल-कालान्तरं यावत् विना साहायं प्रवर्तते इयम्। अन्येषां साहाय्येन जीवनं यापयतां शारीरिकक्लेशेन पीडितानां कृते स्वस्य उपकरणानि यथेच्छं प्रवर्तयितुं शक्यते अनया योजनया।
'न्यूरा लिङ्क्' इति संस्थया निर्मितानि एतानि विशेषसूत्राणि विवरण-वितरणे अतिक्षमतायुक्तानि भवन्ति। एतस्य प्रथमाग्राणि 'एन् वण्' इति सङ्गणकशलाकायां ( chip) सुबद्धानि भविष्यन्ति। द्वितीयाग्राणि मस्तिष्कस्य विशेषभागेषु च संबद्धानि भविष्यन्ति। अनन्तरं मस्तिष्कस्य बहिः लघु उपकरणमपि संबन्ध्य विवरणानि वितरिष्यन्ति। विद्युत्-तरङ्गानुपयुज्य भवति अस्य उपकरणस्य टङ्कितांश-वितरणम्। Thursday, July 18, 2019
कुलभूषणजाधवस्य मृत्युदण्डे अन्ताराष्ट्रनीतिपीठस्य आश्वासविधिः।
हेग् > मृत्युदण्डं धृत्वा पाकिस्थानस्य कारागृहे वसतः भूतपूर्वनाविकस्य कुलभूषणजाधव् नामकस्य मृत्युदण्डः अन्ताराष्ट्रीयनीतिपीठेन निरस्तः। १६ अङ्गयुक्तनीतिपीठस्य १५ अङ्गास्तु कुलभूषणाय ऐकमत्यं प्राकटयन्। मृत्युदण्डः पुनर्विचारणीयः इति तैरुक्तम्। किन्तु मृत्युदण्डं निरोद्धुं कुलभूषणं मोचयितुं वा नीतिपीठेन नोद्युक्तः।
कुलभूषणस्य प्रकरणे भारतस्य अधिकारः पाकिस्थानेन निषिद्ध इति अन्ताराष्ट्रनीतिपीठेन पर्यवेक्षितम्। किञ्च कुलभूषणाय अवश्यं नैतिकसाहाय्यमपि न लब्धमिति निरीक्षितम्।
Wednesday, July 17, 2019
विश्वे बुभुक्षया पीडिताः ८२ कोटि जनाः - यु. एन्
U.N > गतसंवत्सरे विश्वे खाद्यविभवाय क्लेशितानां जनानां सङ्ख्या ८२.१ कोटि इति अन्ताराष्ट्र-संयुक्त-समित्याः आवेदनम्। पोषकयुक्त भक्ष्योत्पन्नानाम् अभावेन २०१५ तमसंवत्सरादारभ्य इयं दुर्दशा वर्धितक्रमेण वृद्धिं याति इति आवेदने सूच्यते। दश संवत्सरेभ्यः पूर्वम् ईदृश्याम् अवस्थायाम् आश्वासप्रदः पुरोगतिः आसीत्। अभ्यन्तर-युद्धानि, पर्यावरणव्यत्ययानि च भक्ष्य दौर्लभ्यस्य प्रधान-कारणत्वेन उच्यते।
२०१७-तमे ८१ कोटि जनाः दिने एकवारस्य अन्नमपि विहाय उषिताः आसन्। २०३० तमे - बुभुक्षारहितो विश्वः इति लक्ष्यं साक्षात्कर्तुं बहुक्लेशः भविष्यति इति यू एन् समित्याः भक्ष्य-विभागाध्यक्षः डेविड् ब्लीसि अवदत्। भक्ष्यसुरक्षां विना शान्तिः सुस्थितिः च न भविष्यतः। दुर्भिक्षया विश्वे शिशवः अपि मृताः सन्ति। तथापि वार्तामाध्यमानि सदा डोणाल्ड् ट्रम्पं ब्रेक्सिट्टिनं च परितः भ्रमणं कृतवन्तः सन्ति इति डेविड् ब्लीसिना तस्य विप्रतिपत्तिः प्रकाशिता।
पाकिस्थानीयः व्योममार्गः उद्घाटितः।
भारतविमानानाम् डयनं सुकरं भविष्यति।
नवदिल्ली > पूर्वं बालाक्कोट् प्रदेशे भारतेन कृतेन आक्रमणेन पिहितः व्योममार्गः पाकिस्थानेन उद्घाटितः। गतदिने मध्याह्ने स्वकीयव्योममार्गेण डयितुं सर्वासां विमानसंस्थानां कृते डयनानुमति प्रदत्ता। पाकिस्थानस्य अयं निर्णयः भारतेन स्वागतीकृतः।
मुम्बैनारे अट्टः भग्नः, ७-जनाः मारिताः २० जनानाम् अवस्था गुरुतरा।
मुम्बै> दक्षिणमुम्बै नगरे अट्टः पतित्वा सप्तजनाः मृताः। अट्टस्य अन्तर्भागे उपचत्वारिंशत् जनाः स्तगिताः। व्रणिताः विंशति जनाः आतुरालयं प्रविष्ठाः। मृतेषु पञ्चजनाः प्रत्यभिज्ञाताः। डोङ्ग्रिस्थ तण्डल् वीथ्याम् आसीत् अट्टः। शतं संवत्सराणां पुरातनत्वमासीत् अस्य चतुरट्टगृहस्य। मङ्गलवासरे प्रभाते ११ वादने आसीत् इयं दुर्घटना। अष्टकुटुम्बाः अत्र निवसन्तः आसन्। राष्ट्रिय दुरन्तनिवारण सेनायाः त्रयः सङ्घाः अत्र रक्षा प्रवर्तनेषु व्यापृताः सन्ति।
Monday, July 15, 2019
सोलनस्थले त्रितलात्मक-अतिथ्यागारः भूमौ पपात, पञ्चविंशतिजनाः त्रापिताः,त्रयो मृताः चतुर्दशजनाश्च भूमौ विलीनाः।
-सन्दीपकोठारिः
सोलनम् ,जे एन् एन् > हिमाचलप्रान्त-सोलनस्थलस्य कुमारहट्टी इत्यस्मिन् स्थाने गतरविवासरे मध्याह्ने त्रितलात्मकः अतिथ्यागारः भग्नीभूय भूमौ पपात। भवनेऽस्मिन् द्विचत्वारिंशज्जनाः आसन् अथ च भोजनार्थमागताः त्रिंशत्सैन्यजनाः अपि भूमौ आपतितवन्तः। अनुमीयते यत् अस्मिन्नतिथिगारे सैनिकसहिताः पञ्चदश जनाः कालेन कबलीकृताः इति। त्रयः मृताश्च निर्गमिताः। मृतशरीरेषु च एकः राजकिशोरः अपि आसीत्। अवधेयास्पदं यत् सेनायाः त्रिंशज्जनेषु सप्तदशजनाः पुञ्जीभूतात् मृदवशिष्टात् अन्यैरुद्धृताः। येषु द्वौ च व्याघातेन अतीव ग्रस्तौ।
भूमौ विलीनाः द्वाद्वशजनाः इदानीमपि अनवगताः। अष्टजनानां च रक्षाकार्यमपि निरवहत्। अतिथ्यागाराधिपतेः साहिलकुमारस्य समग्रपरिवारजनाः अत्रैव निवसन्तः आसन्। दैवानुकूलतया इदमभवत् यत् तदीयात्मजाः तस्मिन्नापत्काले बहिर्गताः परं साहिलस्य धर्मांगिनी अपि भूमिक्षतिग्रस्ते निपतिता सा च अत्यपायस्थितौ प्रत्युद्धृता च। घटनाक्रमेऽस्मिन् पञ्चकूलातः एन् डी आर् एफ् इत्यस्य सुरक्षाकर्तारः समुपस्थिताः च। दुर्घटनानिवारणप्रयत्नः अचिरात् समारब्धम्।।
Sunday, July 14, 2019
केरलराज्यस्तरीय वनिताशिक्षिकासङ्गगमः सम्पन्नः।
पालक्काट् > केरल-संस्कृताध्यापक फेडरेषन् संस्थायाः 'मातृकं-2019' इति राज्यस्तरीय 'वनितासङ्गम'-कार्यक्रमः पालक्काट् कर्णकियम्मन् हयर्सैक्कण्डरि विद्यालये 2019 जूलै 13 दिनाङ्के प्राचलत्। पालक्काट् जिल्लापञ्चायत्त् सदस्या संस्कृतशिक्षिका श्रीमती श्रीजा महाभागा अध्यक्षपदम् अलञ्चकार। पालक्काट् जिल्लापञ्चायत्त् अध्यक्षा न्यायवदी (Adv) के शान्तकुमारि उद्घाटनमकरोत्। विद्याभारत्याः भूतपूर्व-राष्ट्रियाद्ध्यक्षः पण्डितरत्नं डो पि के माधवन् महोदयः अनुग्रह-भाषणमकरोत्। 'यूत्ओलिंपिक्स्' प्रतिभां कुमारि जे विष्णुप्रियां कार्यक्रमे अनुमोदितवन्तः। "स्त्रीशक्तीकरणं संस्कृतं च" इति विषये पालक्काट् भारतीय-विद्यानिकेतन् शिक्षाशास्त्री कलालयस्य प्राचार्या डो. पि सि वि रेणुका महाभागा प्रबन्धं अवतारितवती। मध्याह्ने सांस्कृतिक-सदसि संस्कृतशिक्षिका श्रीमती नीना वारियर् अष्टपदिं (सोपानसङ्गीतम्) प्रस्तुतीकृता।
समापनसत्रे सि पि सनल् चन्द्रस्य अध्यक्षतायां श्री रमेश् नम्पीशन् महोदयः संघटनासन्देशं दत्तवान्। पि. जि अजित् प्रसाद् , डो सिपि षैलजा, यु कैलास् मणि, विके राजेष्, के के राजेष्, सुजाता, राधामणि, प्रसन्ना, प्रभृतयः स्वीयाभिमतान् प्रकटितवन्तः। प्राथमिकस्तरे संस्कृतशिक्षण-कार्यक्षमं कर्तुं , छात्राणां गणनानुसारं शिक्षकनियुक्तिं प्रस्तुतीकृत्य "पठेत् संस्कृतं शिक्षकं दद्यात्" इति मुद्रागीतम् उन्नीय्य प्रवृत्ते मेलने 300 अधिकाः संस्कृत-शिक्षिका-शिक्षकाः भागभाजः अभवन् ।
समापनसत्रे सि पि सनल् चन्द्रस्य अध्यक्षतायां श्री रमेश् नम्पीशन् महोदयः संघटनासन्देशं दत्तवान्। पि. जि अजित् प्रसाद् , डो सिपि षैलजा, यु कैलास् मणि, विके राजेष्, के के राजेष्, सुजाता, राधामणि, प्रसन्ना, प्रभृतयः स्वीयाभिमतान् प्रकटितवन्तः। प्राथमिकस्तरे संस्कृतशिक्षण-कार्यक्षमं कर्तुं , छात्राणां गणनानुसारं शिक्षकनियुक्तिं प्रस्तुतीकृत्य "पठेत् संस्कृतं शिक्षकं दद्यात्" इति मुद्रागीतम् उन्नीय्य प्रवृत्ते मेलने 300 अधिकाः संस्कृत-शिक्षिका-शिक्षकाः भागभाजः अभवन् ।
न्यूसिलान्ट् - इङ्ग्लण्ट् प्रतियोगिता त्रिवादने।
लण्टन् > क्रिक्कट्क्रीडायाः विश्ववीरः क इति अद्य ज्ञायते। लोर्ड्स् क्रीडाङ्कणे अद्य भारतीयसमये सायं त्रिवादने सम्पद्यमाने प्रतिद्वन्द्वे न्यूसिलान्ट्-इङ्ग्लण्ड् दलौ स्पर्धिष्येते। आतिथेयः इङ्ग्लण्ड्दलः चतुर्थवारमेव अन्तिस्तरं प्रविशति। न्यूसिलान्ट्दलश्च द्वितीयवारम्। किन्तु द्वावपि प्रथमकिरीटाभिलाषिणौ।
उपान्त्यस्पर्धायां न्यूसिलान्टः भारतं १८ धावनाङ्कैः पराजयत। इङ्ग्लण्डस्तु विद्यमानवीरं आस्ट्रेलियादलं ८ द्वारकैः अभिभूतवान्।
Saturday, July 13, 2019
सैन्यः सर्वसज्जः - अल् ख्वैद अध्यक्षस्य भीषा तृणवत् मन्यते- भारतम्।
नवदिल्ली- अल् ख्वैद अध्यक्षस्य अय्मन् अल् सवाहिरि इत्यस्य भीषा सन्देशः गौरवेण न वीक्ष्यते इति भारतम्। राष्ट्रस्य सीमानम् आधिपत्यं च परिपालयितुं मन्त्रालयस्य वक्तापरिपालयितुं भारतसेना पर्याप्ता इति विदेशकार्य-मन्त्रालय वक्ता रविषकुमारः वार्ताहरान् प्रति अवदत्। ईदृशी भीषा मध्येमध्ये जाते। किन्तु प्रतिरोद्धुं शैर्यं युद्धोपकरणानि च भारताय सिद्धम् इत्यनेन तादृशी भीषा तृणवत्गण्यते साधारणतया इत्यपि तेनोक्तम्। ऐक्य राष्ट्रसभया निरोधितम् आतङ्कवादिदलं भवति इदम्। अस्य नेतारः बहुवारं UN प्रक्रमाः स्वीकृताः सन्ति इति वार्तामेलने तेनाेक्तम्। भारतसेनां सर्वकारं च विरुद्ध्य आक्रमणान् कर्तुं सवाहिरि इत्यस्य सन्देशः बहिरागतः आसीत् ।
Wednesday, July 10, 2019
लोकश्रद्धा 'श्रीहरिक्कोट्टां' प्रति।
श्रीहरिक्कोट्टा > चन्द्रस्य दक्षिणध्रुवं प्रति भारतस्य सञ्चाराय सिद्धतामनुवर्तमानं श्रीहरिक्कोट्टाभिधेयं विक्षेपणकेन्द्रं लोकश्रद्धामाकर्षति। 'चन्द्रयानं -२' पेटकस्य विक्षेपाय केवलं पञ्च दिनानि अवशिष्यन्ते। सतीष् धवान् बहिराकाशकेन्द्रे एे एस् आर् ओ शास्त्रज्ञाः साङ्केतिकविदग्धाश्च सिद्धताव्यवस्थायाः अन्तिमसोपाने व्यापरन्ति।
जि एस् एल् वि मार्क् ३ इत्यस्मात् शक्तादग्निबाणात् जूलाई १५तमे दिनाङ्के उषसि २.५१ वादने चन्द्रयानस्य अटनमारभते। ५३ दिनानां सञ्चारानन्तरं चान्द्रपथं प्राप्स्यति। ततः १४दिनानां निरीक्षणं परिकल्प्यते।
Monday, July 8, 2019
छात्रैः ३.५० डण् मितानि पलास्टिक मालिन्यानि सञ्चितानि।
![]() |
| छात्राः परिस्थिति-विभाग-निर्देशकः मह्दि अल् हाषेमिना सह |
दुबाय् > दुबायस्थ-विद्यालयीय छात्रैः विगते दिने ३.५० डण् (३५२४ किलो) मितानि पलास्टिक मालिन्यानि सम्भृतानिI उपयोगानन्तरं दूरं प्रेषिताः कूप्यः भ्राष्ट्राणि च भवन्ति सम्भृतेषु अधिकतया। विश्वभौमदिनानुबन्धतया दुबाय् नगरपालिकया छात्रेभ्यः स्पर्धा आयोजिता। पलास्तिक मालिन्यानां सञ्चयनमासीत् स्पर्धा। १८६४२ छात्राः स्पर्धायां भागं ग्रहीतवन्तः। ५७५ किलोमितं पलास्तिकमालिन्यानि सञ्चय्य अल् अह्-मदिय आदर्शविद्यालयेन प्रथम स्थानम् प्राप्तम्। ३१३ किलोमितं पलास्तिक मालिन्यानि सञ्चयित्वा जुमैरा विद्यालयः द्वितीय स्थानं २३३ किलो मितानि पलास्तिक मालिन्यानि सञ्चय्य अहम्मद् बिन् सुलीं प्राथमिकविद्यालयस्य तृतीयं स्थानं च प्राप्तम्।
परिस्थितिप्रतिकूलावस्थां न्यूनीकर्तुं, तथा छात्रेषु परिस्थिति संरक्षणभावनाम् उद्पादयितुं च अनेन कार्यक्रमेण उद्दिश्यते इति दुबाय् शैक्षिकमण्डलस्य प्रतिनीधी परिस्थिति-विभाग-निर्देशकः मह्दि अल् हाषेमी अब्रवीत्।
[
[
Sunday, July 7, 2019
रोहित् शर्मणः चरित्रशतकम्।
आस्ट्रेलिया दक्षिणाफ्रिक्कया पराजिता।
आस्ट्रेलिया दक्षिणाफ्रिक्कया पराजिता।
लीड्स् > एकदिनक्रिक्कट्क्रीडायाः विश्वचषकस्पर्धायां श्रीलङ्कां विरुध्य भारतस्य उज्वलविजयः। प्रवेशकक्रीडकयोः रोहित् शर्मा - लोकेष् राहुलयोः शतकाभ्यां ताडकसप्तकस्य विजयः। प्राप्तधावनाङ्कसंख्या - निश्चिते ५० क्षेपणचक्रे श्रीलङ्का २६४, ७ ताडकैः ; भारतं - ४३.३ क्षेपणचक्रे २६५, ३ ताडकानां विनष्टेन ।
पञ्चमं शतकं प्राप्य भारतस्य प्रवेशकताडकः रोहित् शर्मा [१०३] नूतनं चरितं व्यरचयत्। एकस्यां विश्वचषकक्रीडापरम्परायां प्रप्रथममेव कश्चन ताडकः पञ्च शतकानि अवाप्नोति। तथा च विश्वचषकचरिते रोहितस्य षष्ठं शतकं भवत्येतत्। अनेन रोहितः विश्वचषके अत्यधिकः शतकवानिति सच्चिन् टेन्टुल्कर् वर्यस्य विशिष्टपदेन सह प्राप्तवान् च। रोहितादृते इतरः प्रवेशताडकः लोकेष् राहुलः अपि शतकं [१११] प्राप्तवान्।
उपान्त्यचक्रे भारतं न्यूसिलान्टेन सह स्पर्धिष्यते। अन्यस्यां प्रतियोगितायां आस्ट्रेलिया दक्षिणाफ्रिक्कया अभिभूता। अनेन फलेन आस्ट्रेलिया- इङ्गलण्ट् उपान्त्यस्पर्धा सम्पत्स्यते।
Saturday, July 6, 2019
आयव्ययपत्रकं गुणदोषसम्मिश्रम्।
सामान्यजनानां जीवनव्यवस्थां कठिनायते। राष्ट्रस्य सम्पद्व्यवस्थाविकासः लक्ष्यीक्रियते।
नवदिल्ली > राष्ट्रस्य प्रथमवनितावित्तमन्त्रिणा निर्मलासीतारामेण प्रस्तुतम् आयव्ययपत्रकं गुणदोषसम्मिश्रम्। तैलेन्धनादीनां मूल्यं वर्धिष्यते इत्यतः सामान्यजनानां जीवनं कठिनं भवेत्। किन्तु राष्ट्रस्य समग्रं दीर्घकालविकासं लक्ष्यीकृत्य आयोज्यमानाभिः परियोजनाभिः आर्थिकव्यवस्थायाः प्रगतिश्च परिकल्प्यते।
राष्ट्रे दशसंवत्सराभ्यन्तरे प्रचाल्यमानाः दश परियोजनाः निर्मला सीतारामेण आयव्ययपत्रके प्रख्यापिताः। भौतिकं सामाजिकं च आधारसुविधाः, मालिन्यरहितं सस्यश्यामलकोमलं भारतं, 'मेय्क् इन् इन्डिया' परियोजनया लघूद्योगानां प्रारम्भः, गगनयान - बहिराकाशपरियोजनाः इत्यादयः तासु अन्तर्भवन्ति।
विश्वस्य बृहत्तमाय प्रतिरोधसन्धये भारतम् । ११४ युद्धविमानानी क्रेष्यते।
नवदिल्ली> विश्वस्य बृहत्तमाय प्रतिरोधसन्धये भारतेन प्रक्रमाः समारब्धाः। ११४ युद्धविमानानि क्रेतुं १५०० कोटि डोलर् धनस्य विनिमयोपाधिः प्रारम्भस्तरे एव। विक्रय-प्रक्रमे भागं कर्तुं प्रतिरोधमण्डलस्य प्रथमस्थानीयाः संस्थाः तेषाम् औत्सुक्यं प्राकाशिताः। बोयिङ्, लोक्हीड्मार्टिन्, साब् ए.बि च भवन्ति एताः। निर्मितेः ८५% भारते भवितव्यम् इति व्यवस्थाम् अनुसृत्य भवति सन्धिपत्रम् इति एतत् अधिकृत्य संवत्सरात् पूर्वं प्रकाशिते प्रमाणपत्रे वदति। व्योमसेनायाः आवश्यकानि कानि इति इदानीं निर्णयं कुर्वन्ति इति व्योमयान-सहमन्त्रिणा श्रीपद् नायिकेने प्रतिनिधिसभायाम् उक्तम्
Friday, July 5, 2019
कुलभूषणजादवस्य नीतिव्यवहारे अन्ताराष्ट्र न्यायालयस्य निर्णयः जूलई १७ दिनाङ्के।
नवदिल्ली> भूतपूर्व-नाविकसैनिकस्य कुलभूषणजादवस्य नीतिव्यवहारे अन्ताराष्ट्र न्यायालयस्य निर्णयः जूलई १७ दिनाङ्के भविष्यति। निवृत्तसैनिकः कुलभूषण-जादवः पाकिस्थानस्य सैन्येन गृहीतः आसीत्I चारवृत्तिमारोप्य पाकिस्थानस्य सैनिकन्यायालयेन तस्मै मृत्युदण्डः निर्णीतः। पाकिस्थानस्य अन्यायनिर्णयं विरुद्ध्य भारतसर्वकारेण अन्ताराष्ट्र न्यायालये नीतिव्यवहारः दत्तः। व्यवहारेऽस्मिन् जूलैमासस्य १७ दिनाङ्के अन्ताराष्ट्रन्यायालयेन निर्णयः वक्ष्यति।
२०१७ ऐप्रिल् मासे आसीत् पाकिस्थानस्य सैन्येन तस्य ग्रहणम्। किन्तु भारतस्य न्यायव्यवहारे अन्ताराष्ट्र न्यायालयेन मेय् १८ दिनाङ्गे पाकिस्थानस्य सैनिकन्यायालयस्य मृत्युदण्डः रोधितः आसीत्I
Thursday, July 4, 2019
आर्थिकसर्वेक्षणस्य लक्ष्यं पञ्चलक्षं कोटि डोलर् धनस्य साम्पतिक-व्यवस्था-परिपुष्टिः - नरेन्द्रमोदी।
नवदिल्ली> धनमन्त्रिणी निर्मला सीताराम महाभागया अद्य लोकसभायं प्रकाशितं आर्थिकसर्वेक्षणम् राष्ट्रस्य आर्थिकवर्धनस्य रूपरेखा कथम् इति स्पष्टीक्रियते इति नरेन्द्रमोदिना उक्तम्। ऊर्ज मण्डलेषु, साङ्केतिक मण्डलेषु तथा सामूहिकमडलेषु च वर्धनं साम्पतिक सर्वेक्षणं प्रतिपाद्यते इति टिट्वर् माध्यमेन सः उक्तवान् I
२०१९ - २०२० संवत्सरे राष्ट्रस्य आर्थिकवर्धने उन्नतिः भविष्यति इति सर्वेक्षणे संसूचितम्। आर्थिकपरिपुष्टिमानः ६.८ तः ७ इति वर्धनं स्यात्।
भीकराक्रमणं निवारयितुं न शक्यम् - श्रीलङकायाः आरक्षकाध्यक्षः बन्धितः।
कोलम्बो> २५८जनानां मृत्योः निदानभूतः ईस्टर् दिनभीकराक्रमणं निवारयितुं न शक्यम् इति कारणेन श्रीलङकायाः आरक्षकाध्यक्षः बन्धितः। आरक्षकाधिकारी 'इन्स्पेक्टर् जनरल् पूजित् जयसुन्दरः भवति एवं बन्धने। तेन सह भूतपूर्व प्रतिरोधसचिवः हेमसिरि फेर्णाण्डो अपि बन्धितः अस्ति। सुरक्षा सूचनायाः अवगमने पराजयम् अभवत् इत्येतत् उत्तरदायिनां मनुष्याणां अपराधः इति कृत्वा एव दण्डनं दीयते इति 'श्रीलङ्कायाः अट्टोणि जनरल्' इत्यनेन संसूचितम् आसीत्।
राहुलगान्धी कोण्ग्रस्दलाध्यक्षपदम् अत्यजत्।
नवदिल्ली > भारते 'इन्डियन् नाषणल् कोण्ग्रस्' नामकराजनैतिकदलस्य देशीयाध्यक्षः राहुल् गान्धी तत्स्थानं त्यक्तवान्। लोकसभा निर्वाचने प्रायशः आराष्ट्रं कोण्ग्रस्दलस्य दयनीयपराजयस्य धार्मिकम् उत्तरदायित्वं स्वीकृत्य एव स्थानत्यागः। ह्यः 'ट्विटर्' द्वारा त्यागप्रख्यापनं कृतवान्।
मासैकस्मात् पूर्वमेव राहुलः पदत्यागाय सन्नद्ध आसीत्। किन्तु अधोमण्डलनेतृणाम् अनुयायिनां च विमतेन कालविलम्बः अभवत्। दलस्य शक्तीकरणाय कदाचित् तीक्ष्णः निर्णयः अवश्यं भवेदिति ट्विटर् द्वारा तेनोक्तम्।
आगामिनि वारे प्रवर्तकसमितिम् आहूय नूतनाध्यक्षचयनं भविष्यतीति सूच्यते।
Wednesday, July 3, 2019
अतिवृष्टिः, मुम्बै प्रदेशे ३५ जनाः मृताः।
मुम्बै> पञ्चदिनानि यावत् अनुवर्तमानः अतिवृष्ट्या ३५ जनाः मृताः। रैल्पथाः जले निमज्जिता:, रैल् गातागतानि स्थगितानि। ११७५ संवत्सरा नन्तरं जाता अतिवृष्टिः भवति एषा। अन्ताराष्ट्र विमाननिलयस्य धवनपन्थाः मध्याह्नपर्यन्तं पिधानं कृतम्। ५२ विमानानां सेवानिवृत्तिः कृता । शैक्षिकसंस्थायै विरामः प्रख्यापितः आसीत्। कुरार् ग्रामे भित्तिः पतित्वा २० जनाः निहताः। मित्ति नदी कूलम् अतिक्रम्य प्रवहति। ततः सहस्राधिकाः देशान्तरं प्रेषिताः।Tuesday, July 2, 2019
मुम्बैनगरे अतिवृष्टिः, जनजीवनं स्तब्धम्, सर्वजनिक-विरामः प्रख्यापितः।
मुम्बै> अतिवृष्टिः अनुवर्तते इति कारणेन मुम्बैप्रदेशे सर्वकारेण सार्वजनिकविरामदिनः घोषितः। अत्यवश्य सेवा एव अद्य लभ्यमाना अस्ति। मुम्बै अतिरिच्य नवि मुम्बै, कोङ्कण्, ताने प्रदेशेषु शैक्षिक-संस्थायै सर्वकारेण विरामः निर्दिष्टः।वृष्ट्या रथ्या, रैल् व्योम गतागतानि स्थगितानि। अतिवृष्ट्या भित्तिः पतित्वा मलाट् देशे १३ जनाः, पूणे देशे ६ जनाः च मृताः। मृतानां कुटुम्बेभ्यः ५ लक्षं रूप्यकाणि साहाय्यधनं प्रख्यापितम् अस्ति। विविध भागेषु गतागतं पूर्णतया स्थगितं वर्तते। मुम्बै नगरस्य नीचतल प्रदेशाः जलान्तर्भागे वर्तते। अत्र इदानीमपि वृष्टिः अनुवर्तते इत्यस्ति आवेदनम्।
स्वदेशीय चिन्ता- ३००० वैदेशिककर्मकराः कुवैत् राष्ट्रतः निष्कास्यन्ते।
कुवैत् सिट्टि> समागते आर्थिकसंवत्सरे ३००० वैदेशिककर्मकरान् निष्कासयितुं कुवैत्त् सर्वकारेण निश्चितम्। आगामि पञ्चवर्षाभ्यन्तरे सार्वजनिक मण्डलेषु १००% स्वदेशीयानां कर्माकराणां नियुक्तिः उद्दिश्यते। वैदेशिकान् प्रशासनीय-कर्मकरान् निष्कासयित्वा स्वदेशीयान् नियोक्तव्यमित्यस्ति आदेशः। मन्त्रिसभायाः अनुज्ञया भवति सार्वजनिकायोगस्य आदेशः। आदेशम् अनुसृत्य शिक्षामन्त्रालयेन निष्कासनाय पट्टिका सज्जीकृता अस्ति। विगतेषु मासेषु शैक्षिक मन्त्रालयेन १७६ वैदेशिकाः, धर्ममन्त्रालयेन २२०, जल-वैद्युतमन्त्रालयेन ३१ वैदेशिककर्मकराः च परित्यक्ताः आसन्।
काबूले कार्-यानेन विस्फोटः- ३४ जनाः निहताः।
काबूलम्> अफ्गानिस्थानस्थे काबूल देशे यू ए स् दूतावासगृहस्य समीपे जातेन विस्फोटनेन ३४ जनाः निहताः। ६५ जनाः क्षताः इति च आवेद्यते। अतङ्किना एव विस्फोटः कृतः इति अफ्गानस्य आभ्यन्तरमन्त्रालयेन कथ्यते।
रविवासरे उषसि एव विस्फोटः अभवत्। क्रय-विक्रयणय जनाः रथ्यां प्रति समागच्छान् असीत् तदानीम्। विस्फोटनस्य उत्तरदायित्वं कोऽपि न स्वीकृताः
तालिबान् , इस्लामिक्स्टेट् इत्यादिभिः भीकरदलैः परिवृतोऽयं प्रदेशः।
Monday, July 1, 2019
भारत-पसफिक् मण्डलेषु नाविकसेनया अतिजाग्रता पालनीया- राजनाथ सिंहः।
पूर्वस्यां दिशि विद्यमानेन राष्ट्रेण सह नरेन्द्रमोदी सर्वकारस्य नूतन-नयानुसारेण नाविकसेनायै सुप्रधानं दायित्वमस्ति। सेनायाः शक्तिः वर्धापनीया च। समुद्रमार्गेण जायमानां भीषां रोद्धुं राष्ट्रसुरक्षां शक्तं कर्तुं च नितान्तावधानता आवश्यकी इत्यपि तेन उक्तम्।
Subscribe to:
Comments (Atom)

















