उत्तरकोरियाराष्ट्रपतिः किं जोङः अस्तप्रज्ञः वर्तते?
सामाजिकवेदिकासु बहुकालं यावत् किं जोङ् उन्नः न प्रत्यक्षीभूतः। सः रोगबाधितः इत्यत एव सोदर्या प्रशासनव्यवहारः क्रियते इति सूच्यते।
उत्तरकोरियाराष्ट्रपतिः किं जोङः अस्तप्रज्ञः वर्तते?
सामाजिकवेदिकासु बहुकालं यावत् किं जोङ् उन्नः न प्रत्यक्षीभूतः। सः रोगबाधितः इत्यत एव सोदर्या प्रशासनव्यवहारः क्रियते इति सूच्यते।
अफ्गानिस्थाने आतङ्किनः आक्रमणम् - सप्तजनाः मारिताः।
काबूल्> अफ्गानिस्थाने प्रवृत्तेन विस्फोटनेन त्रिभिः शिशुभिः सह सप्तजनाः मृताः। गसनि प्रविश्यायाः जगतु जनपदे ह्यः प्रातः आसीत् इयं दुर्घटना। मार्गपार्श्वे स्थापिते बोम्ब् विस्फोटके कार् यानस्य घट्टनेन एव स्फोटनमभवत्। किन्तु आक्रमणस्य उत्तरदायित्वम् इतःपर्यन्तं कोऽपि न स्वीकृतम्। तालिबानेन सह सन्धिचर्चा प्रचाल्यमानः कालः आसीत् अयम्। विगतेन षण्मासाभ्यन्तरेण 1282 जनाः आतङ्किनाम् आक्रमणेन निहताः इति यु एन् सङ्घटनेन आवेदितम्।
भारते कोविड्बाधिताः ३० लक्षमतीताः।
नवदिल्ली> गतदिने ६९,८७८ कोविड्प्रकरणेषु दृढीकृतेषु राष्ट्रे कोड्रोगबाधितानां संख्या ३०, ३०, १५५ जाता। गतदिने ९४५ जनाः अनेन रोगेण मृत्युमुपगताः। आहत्य मृत्युसंख्या ५६,६९६ अभवत्।
महाराष्ट्रे कोविड्बाधितानां प्रतिदिनोच्चतमसंख्या ह्यः अङ्कितम्। १४सहस्राधिकमासीत् ह्यस्तनसंख्या । अनेन अद्यावधि रोगबाधिताः ६,७१,९४२ जाताः। २२सहस्रं जनाः कालगतिं प्राप्ताः च। तमिलुनाटे ३.७३ लक्षं , आन्ध्रप्रदेशे ३.३५लक्षं, कर्णाटके २.७२लक्षं , उत्तरप्रदेशे १.८२लक्षं , पश्चिमवंगे १.३५ लक्षं , तेलुङ्काने बिहारे च एकलक्षाधिकम् इत्यस्मिन् क्रमे रोगबाधितानां संख्या वर्तते।
केरले अद्यावधि ५६,३५४ जनाः रोगबाधिताः अभवन्। प्रकरणानां प्रतिदिनसंख्या सप्ताहैकं यावत् द्विसहस्राधिका वर्तमाना अस्ति। आराष्ट्रं रोगमुक्तानां प्रतिशतता ७४.३ इति आश्वासप्रदं वर्तते।
कोरोण वैराणुव्यापनं वर्षद्वयाभ्यन्तरे नियन्त्रणाधीनं भविष्यति। - WHO
जनीव> वर्षद्वयाभ्यन्तरे कोरोण वैराणुव्यापनं नियन्त्रणाधीनं भविष्यति इति प्रतीक्ष्यते इति विश्वस्वास्थ्य संस्थायाः अध्यक्षेण ड्रोस् अथानों गब्रियेसस् वर्येणोक्तम्। 1918-तमे आवेदितं स्पानिष् फ्लू रोगं वेजेतुं वर्षद्वयं स्वीकृतम् इत्यपि तेन सूचितम्। किन्तु तस्मात् कालात् अधिकतया अधुनिकसुविधायाः प्रगत्या अल्पेन कालेनेव वैराणुव्यापनं रोद्धुम् वयं सक्षमो भवामः इत्यपि तेनोक्तम्।स्पानिष् ज्वरेण 50 दशलक्षं जनाः मृताः आसन्। 22.7 दशलक्षं जनाः कोरोणया बाधिताः - तेषु ८ लक्षं जनः मृताश्च इति तेन स्मारितम्।
विषबाधितः रूस् विपक्षनेता अतिसङ्कीर्णावस्थायाम्।
मोस्को> गतगुरुवासरे रूस् राष्ट्रस्य विपक्षनेता अलक्सि नवल्नि नामकः विषबाधितः आतुरालयं प्रवेशितः। तस्य अवस्था अतिसङ्कीर्णा वर्तते इति सूच्यते। श्रेष्ठचिकित्सार्थं जर्मनीं नेतुं भिषग्वरैः अनुज्ञा दत्ता।
सैबीरियायाः मोस्कोनगरं प्रति यात्रामध्ये सः गरलबाधितः अभवत्। रूस् राष्ट्रपतेःनितान्तविमर्शकः अस्त्ययम् इत्यतः यः कोऽपि चायपानीयेन सह विषमदादिति तस्य अनुयायिवृन्दैः उक्तम्।
इदानीं सः सैबीरियास्थे आतुरालये वर्तते। तत्रत्यैः भिषग्वरैः परिशोधनायां रक्तमूत्रादिषु विषांशः न प्रत्यभिज्ञातः । कोविड् रोगव्यापनस्य कारणतः सीमापिधानं वर्तते इत्यतः श्रेष्ठचिकित्सायै राष्ट्रान्तरगमनमशक्यमिति सर्वकारेण सूचितमासीत्। किन्तु तस्य प्राणरक्षणाय प्रतिषेधे शक्ते जर्मनीं नेतुमनुज्ञा दत्ता आसीत्। जर्मनी फ्रान्स् इत्यादिराष्ट्राणां नेतारः साहाय्यवाग्दानं कृतवन्तः।
लोकसभासम्मेलनं सेप्टम्बरे द्वितीयवारे।
नवदिल्ली> लोकसभायाः वर्षाकालमेलनं सेप्तम्बरमासस्य द्वितीयसप्ताहे सम्पत्स्यते। कोविड् सुरक्षामालक्ष्य सिद्धतायाः अन्तिमसोपाने व्याप्नुवन्नस्ति सर्वकारः। सम्मेलनस्य परिचिन्तनाय सभाकार्यमन्त्रितलसमितिः अचिरेण मेलिष्यतीति सभाकार्यमन्त्रिणा प्रह्लादजोषिणा उक्तम्।
प्रधानमन्त्री नरेन्द्रमोदी, रक्षामन्त्री राजनाथसिंहः, गृहमन्त्री अमितशाहः इत्येतैः सह प्राथमिकोपवेशनं कृतमिति तेन स्पष्टीकृतम्।
राष्ट्रिय-शिक्षानीतिः २०२० इति विषये अन्तर्जाल-सङ्गोष्ठी समारब्धा।
कालटी> केन्द्रसर्वकारेण समुद्घोषिता राष्ट्रिय-शिक्षानीतिः २०२० इति विषयमधिकृत्य संस्कृतभारत्याः केरल विभागेन अन्तर्जाल-सङ्गोष्ठी समारब्धा। आगस्त् मासस्य २० दिनाङ्के समारब्धा इयं सङ्गोष्ठी २९ दिनाङ्के सम्पूर्णा भविष्यति। प्रतिदिनं सायं चतुर्वादने सङ्गोष्ठी प्रचाल्यते। https://youtu.be/SYFLWF0KbO0 इति सम्पर्कसूत्रद्वारा संस्कृतभारत्याः यू ट्यूब् वाहिन्यां साक्षात् द्रष्टुं सन्दर्भः भविष्यति।
अन्तरिक्षे आर्द्रता वर्धते चेत् कोविड् वैराणोः आयुः २३ गुणितो भविष्यति।
सङ्गीतज्ञः पण्डितः जस् राजः दिवंगतः।
न्यूजेर्सी > विश्वविख्यातः हिन्दुस्थानि सङ्गीतसम्राट् पण्डितः जस् राजः [९०] अमेरिकायां दिवंगतः। हृदयाघातेन सोमवासरे सायाह्ने २.४५ वादने [भारतीयं वादनम्] आसीदन्त्यम्।
सूक्ष्मता शुद्धता च तस्य नादोपासनस्य मुखमुद्रा आसीत्। भारतीयशास्त्रियसंगीताय जस् राजेन दत्तं योगदानं पुरस्कृत्य त्रिभिः पद्मपुरस्कारैः सः समादृतः। तदतिरिच्य केन्द्रसङ्गीतनाटक अक्कादमी पुरस्कारः, स्वातितिरुनाल् पुरस्कारः पश्चिमवंगसर्वकारस्य सुरेन् गुरु पुरस्कारः इत्यादयः बहुविधाः बहुमतयः तेन लब्धाः।
भारते कोविड्मरणानि ५०,००० अतीतानि।
२५,९४,११२ जनाः अद्यावधि राष्ट्रे कोविड्बाधिताः अभवन्। सम्प्रति प्रतिदिनसंक्रमणसंख्या षष्टिसहस्रमतीता। शनिवासरे ६३,४९० जनेषु रोगबाधा दृढीकृता। विश्वस्मिन् भारतम् एतस्मिन् विषये तृतीयस्थानमावहति।
किन्तु रोगमुक्तिप्रतिशतता ७२ इत्याश्वासदायकं वर्तते। १८.६३ लक्षं जनाः विरुजः जाताः। मृत्युमानमपि १.९३ इति न्यूनतरं वर्तते।
वुहानतः समागतेषु नोवल् कोरोणवैराणुषु ७३ भेदाः विद्यन्ते - भारतीय वैज्ञानिकाः।
नवदिल्ली> निरन्तर -जनितक-परिवर्तनेन सह कोविड् वैराणुः आविश्वं व्याप्यते इत्यस्ति नूतनम् आवेदनम्। वुहानतः समागतेषु नोवल् कोरोणवैराणुषु ७३ भेदाः विद्यन्ते इति भारतीयवैज्ञानिकैः प्रत्यभिज्ञातम्। नवदिल्लीस्थायाः सि एस् ऐ आर् संस्थायाः तथा भुवनेश्वरे विद्यमानायाः औषधविज्ञानीय-संस्थायाः गवेषकाः मिलित्वा अध्ययनं कृतवन्तः। १५३६ अदर्श अंशाः अध्ययनाय उपयुक्ताः। B1.112, B.1.99 इति द्वे पङ्क्ती अपि भारते इदं प्रथमतया दृष्टा इति अनुसन्धातृभिः उक्तम्।
प्राथमिकपरीक्षणे 'कोवाक्सिन्' सुरक्षितम्।
नवदिल्ली> कोविड्रोगं प्रतिरोद्धुं भारतेन निर्मितं कोवाक्सिन् नामकं प्रत्यौषधं तस्य प्राथमिकसोपानपरीक्षणे विजयी अभवत्। दिल्लीस्थस्य 'एयिंस्' - AIMS - आतुरालयस्य निरीक्षणत्वेन आराष्ट्रं व्याप्यासु १२ संस्थासु ३७५ चितेषु जनेषु क्रियमाणं परीक्षणम् आगस्ट् मासे सम्पूर्णतामेष्यति। द्वितीयसोपानं सेप्तम्बरमासस्य प्रथमसप्ताहे आरप्स्यते।
प्रत्यौषधस्वीकर्तृषु अद्यावधि यः कोपि विशेषः न दृष्ट, ते सर्वे सुरक्षिताः वर्तन्त इति एयिंस् गवेषकप्रमुखः सञ्जय् रायः उक्तवान्। २०२१ संवत्सरस्य प्रथमार्धे प्रत्यौषधं सार्वत्रिकोपयोगाय विधातुं प्रतीक्षते इति तेनोक्तम्।
नवदिल्ली> 'सेवा परमो धर्मः' इति मन्त्रम् उदीर्य कोविड् वैराणुं विरुद्धय युद्धं कुर्वन्तः वीराः जनसेवां कुर्वन्ति इति भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। तान् प्रति कृतज्ञतां प्रकाशयति इति सः अवदत्। स्वातन्त्रतादिनसमारोहे रक्तदुर्गे राष्ट्रं प्रति अभिसंबोधनं कुर्वन्नासीत् प्रधानमन्त्री। इदानीं वयं दुष्टकालेन सह गच्छन्तः भवामः। स्वतन्त्रतायैः युद्धं कृताः वीरपुरुषाः अस्मिन् दिने अस्माभिः स्मर्तव्याः। अपि च अस्माकं सुरक्षायैः तिष्टतः सैनिकान् प्रति धन्यवादार्पणाय भवति इदं दिनम्। कोविड् महाव्याधिकाले भारतीयाः स्वाश्रयाय दृढनिश्चयं कृतवन्तः अभवन्। आत्मनिर्भरं भारतम् इति भारतम् अधुना चिन्तयति। १३० कोटि जनानां स्वप्नरूपेण मन्त्ररूपेण च परिवर्तितः आत्मनिर्भरं भारतम् इति मोदिना उक्तम्।
वाषिङ्टण्> यु एस् राष्ट्रपतेः डोणाल्ड् ट्रम्पस्य माध्यस्थमेलनेयू ए ई इस्रयेल् देशयोर्मध्ये ऐतिहासिकः सन्धिः अभवत् । सन्ध्यनुसारं पालस्तीनप्रदेशान् अधीनं कर्तुं शासनस्थापनाय कृतः यत्नः स्थगनीयः इति निर्देशः इस्रयेलेन अङ्गीकृतः इति 'वैट् हौस्' तथा यु ए ई च आवेदयतः। एतयोः मध्ये परस्पर-साह्यकरणाय सन्धिः च कृतः। बहुकालं यावत् प्रचलितायाः चर्चायाः फलप्राप्तिः एव सन्धिरूपेण अधुना प्रकाशिता। ट्रम्पस्य माध्यस्थ चर्चायाम् अबुदाबि किरीटाधिकारि मुहम्मद् बिन् सायिद् अल् नह्यान् इस्रायेलस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहु च दूरवाणिद्वारा भाषणं कृत्वा आसीत् सन्धिप्रक्रमाः आरब्धाः।
आत्मनिर्भरं विधातुं दिशयाम् - रक्षामन्त्रालयस्य निर्णयः।
रक्षामन्त्रिणा राजनाथसिंहेन उक्तम् एकाधिकशतम् रक्षोपकरणानाम् आयातिकरणे प्रतिबंधः करिष्यति।
राजनाथसिंहेन रविवासरे आत्मनिर्भरभारतं विधातुं दिशायाम् महत्वपूर्णाः घोषणाः कृतवान्। तेन विदेशेषु निर्मितेषु शताधिकेषु रक्षोपकरणेषु प्रतिबंधः प्रवर्तिष्यते। भारतराष्ट्रे एव रक्षोपकरणानां स्वतः निर्माणं कर्तुं अवकाशः प्रदास्यति। एतस्मात् राष्ट्रस्य आपणाः सुदृढ़ाः भविष्यन्ति। रक्षा अनुसन्धानः एवं विकास संगठनेन पूर्वरचितं रुपरेखानुसारेण साहाय्यः क्रियते। चीनभारतयोर्मध्ये लद्दाखस्य काचित् क्षेत्रेषु अधुनापि सङघर्षः प्रचलति।
“राष्ट्रभाषा हिब्रूभाषा” इति सङ्कल्पसाधकं स्वाभिमानि इजरायलम्।
-डा.भारती शर्मा
-आचार्य: रामकृष्णशास्त्री च (जयपुरम्)
द्विसहस्रवर्षेभ्यः यावत् विश्वस्य विविधराष्ट्रेषु इतस्ततः भ्रमणशीलानां यहूदीनां न तु स्वराष्ट्रमासीत् नापि भूमिः न च संस्कृतिः। परन्तु ते मातृभुवं प्रति दृढसंकल्पाः आसन् यत् यदापि पुनः मेलिष्यामः जेरुशेलमे एव। तस्मिन् काले तान्निकषा इजरायलदेशः यहूदीसंस्कृतिः हिब्रूभाषा च नासन् । स्वसङ्कल्पं साधयितुं ते उत्साहिनोऽस्यां पृथिव्यां भ्रमन्तः यदापि परस्परममिलन् स्वसङ्कल्पमस्मरन् यदस्माकं पुनः मेलनं जेरुशेलमे एव भविष्यति । सङ्कल्पः पूर्णतामयात् । यहूदयः इजरायलदेशं 1948 ई.तमे वर्षे प्राप्नुवन्। विश्वस्य लघुतमेषु राष्ट्रेष्वन्यतमः एष देशः चतसृषु दिक्षु अरबराष्ट्रैः आवृतः निर्जनमरुभूमिः आसीत् ।
मरुस्थलं मरुस्थलमिवासीत्, तथैव मृदा । कालान्तरे इजरायलवासिनां सोत्साहपरिश्रमेण मृदायामद्भुत-परिवर्तनमारब्धम् । मरुभूमेः कृषकराष्ट्रमिदं सम्प्रति विश्वाय उन्नतकृषितकनीकिं विक्रीणाति। प्रतिदिनं नैक 'टन' परिमितं शाकानि फलानि च यूरोपं प्रति प्रेषयति। अद्य या “ड्रिप इरिगेशन सिस्टम” इत्याख्या प्रथिता सेचनप्रणाली जगता उपयुज्यते सा इजरायलेनाविष्कृता। विश्वस्य शक्तिसम्पन्नासु गुप्तचरसंस्थासु इजरायलदेशस्य मोसाड इति नाम्नी गुप्तचरसंस्थान्यतमा वर्तते ।
इजरायलं स्वाभिमानस्य आत्मविश्वासस्य आत्मसम्मानस्य च प्रतीकमस्ति । तस्य देशस्य जनसंख्या प्रायः अशीतिलक्षमात्रमस्ति । तत्र देशस्य एकायाः सीम्नः अपरां सीमानं गन्तुं घण्टात्रयं चतुष्टयं वा पर्याप्तमस्ति इत्यनेन तत्रत्याः विकसितपरिवहनव्यवस्था ज्ञायते । पृथिव्याः जलराशेः द्विप्रतिशतं जलमेव तस्य जलसम्पत्तिः। प्राकृतिकसंसाधनानां प्रायोऽभावः। कदाचिद् भगवतापि तद्राष्ट्रं प्रति समदृष्टिः न धृता यतोहि समीपस्थेषु अरबदेशेषु तैलस्य प्राचुर्यम्, इजरायले तदपि नास्ति।
इजरायलं राजनीतिकजीवन्ततायाः बोधस्य च पराकाष्ठां धारयति । तस्मिन् लघुराष्ट्रे आहत्य द्वादशराजनीतिकदलानि वर्तन्ते । यद्यपि अद्यावधि न किमपि दलं पूर्णजनमतैक्येन सर्वकारं स्थापयितुं समर्थमभवत् । तथापि तत्र पूर्णतः ऐक्यं दृश्यते- राष्ट्रस्य सुरक्षायै सम्मानाय स्वाभिमानाय हिताय च । एतेषु विषयेषु न तु किमपि दलम् अनुचितपथा सन्धानं करोति न च सर्वकारस्य पतनाय सत्तारूढं संघं भीषयते । इजरायलस्य स्वकीया राष्ट्रियहितावली भवति या सर्वैः दलैः समाद्रियते ।
14 मई 1947 तमे वर्षे इजरायलस्य स्थापनायां सत्यां जगतः सर्वेभ्यः राष्ट्रेभ्यः यहूदयः तत्रागच्छन् । अस्माकं भारतदेशादपि सहस्राणि यहूदयः स्थानान्तरिताः अभूवन् । विविधेभ्यः देशेभ्यः आगन्तॄणां प्रवासिनां भाषाः भिन्नाः आसन् । अतः पश्नः उद्गतः यद्देशस्य भाषा का भवेत्? तेषां हिब्रूभाषा तु प्रायः द्विसहस्रवर्षेभ्यः मृतेवासीत् । अत्यल्पाः जनाः एव हिब्रूम् अजानन् । अनया भाषया रचितस्य प्राचीनसाहित्यस्यापि अल्पतासीत् । नूतनसाहित्यस्य तु सर्वथैव अभावः। अतः केनापि जनेन आङ्ग्लभाषां देशस्य सम्पर्कभाषां कर्तुं स्वमतं प्रकटितम् । परन्तु स्वाभिमानिनः इजरायलवासिनः कथमेतत् सहेरन् ? तैरुक्तम् अस्माकं हिब्रूभाषा एव जनभाषा भविष्यतीति निर्णीतम् । किन्तु व्यावहारिकदृष्ट्या नैकाः समस्याः विस्फारितमुखाः आसन् । अत्यल्पाः जनाः हिब्रूभाषया परिचिताः आसन् अत एव इजरायलसर्वकारेण हिब्रोः ज्ञानाय मासद्वयस्य पाठ्यक्रमः निर्धारितः। तेन विश्वस्य महतः भाषाभियानस्य प्रारम्भः जातः। यस्य कालावधिः पञ्चवर्षाण्यासन् । एतस्याभियानस्यान्तर्गते सम्पूर्णे देशे ये केऽपि हिब्रूज्ञानिनः आसन् । ते नित्यं प्रातः एकादशवादनादाराभ्य एकवादनं यावत् स्वगृहस्य निकटस्थे विद्यालये हिब्रूम् अपाठयन्। अनेन प्रकारेण बालाः तु पञ्चसु वर्षेषु हिब्रूं शिक्षिष्यन्ते परं प्रौढानां किमिति । एतस्य समाधानाय पाठशालासु अधीयानैः बालकैः प्रतिदिनं सायं काले पितरौ प्रतिवेशिनः प्रौढाः वृद्धाः च पाठिष्यन्ते इति व्यवस्था कल्पिता। तत्रापि बालाध्यापकानां पाठने त्रुटिः भवितुमर्हतीति स्वाभाविकम् । तन्निराकर्तुं 1947 ई.तमस्य वर्षस्य अगस्तमासतः आरभ्य 1953 ई. वर्षस्य मई मासं यावत् हिब्रूभाषायाः मानकपाठस्य रेडियोमाध्यमेन प्रसारणमभवत् । इत्थं बालेभ्यः पाठनकाले याः त्रुटयः विहिताः तासां त्रुटीनाम् अपाकरणं वयस्काः रेडियोपाठमाध्यमेन सम्यगवगम्य स्वयमेव करिष्यन्तीति निर्धारितम् । अनेन क्रमेण 1953 ई. वर्षेऽभियानस्य सम्पूर्तिकाले केवलं पञ्चसु वर्षेषु इजरायलं हिब्रूभाषायां शतप्रतिशतसाक्षरतामाप्नोत्।
अधुना हिब्रूभाषया नैके शोधप्रबन्धाः प्रकाशिताः। लघ्वस्मिन् राष्ट्रे समग्रराज्यकार्यम्, अभियान्त्रिकि-चिकित्साशास्त्रमित्याद्यः सर्वविधाः उच्चशिक्षाश्च हिब्रूभाषयैव सम्पाद्यन्ते । इजरायलदेशमवगन्तुं ज्ञातुञ्च अपरेषां राष्ट्राणां छात्राः हिब्रूं पठितुमारब्धाः।
एतादृशं देशमस्ति इजरायलम् । जीवन्ततायाः जिजीविषायाः स्वाभिमानस्य च मूर्तिः।
भाषासंस्कृत्योः विषयेऽस्माकं का स्थितिः? अद्यापि वयं दैन्येन आङ्ग्लं प्रति दत्तदृष्टयः स्मः। कथं संस्कृतं जनभाषां कर्तुं न क्षमाः वयमिति चिन्तनीयम् ।
वाषिङ्टण् > आविश्वं कोविड्-१९ रोगबाधितानां संख्या १.९४कोटिमुपगच्छति। अद्यावधि ७.१८ लक्षं जनाः मृत्युवशं गताः। १.२४कोटिजनाः स्वस्थीभूताः जाताः।
गतदिने अशीतिसहस्राधिकाः जनाः रोगबाधिताः अभवन्। मरणानि तु द्विसहस्राधिकम् अभवन्। यू एस् , भारतं, रूस् , मेक्सिको, इरानः, इराखः, यू के, बङ्ग्लादेशः इत्येतेषु राष्ट्रेषु रोगबाधा मरणानि च अधिकतया वर्तन्ते।
कोष़िक्कोट् > केरले कोष़िक्कोट् जनपदस्थे करिप्पूरविमाननिलये दुबाय्तः प्राप्तं एयर् इन्डिया संस्थायाः १३४४ इति एक्स् प्रेस् विमानं अवतरणमार्गात् स्खलित्वा जातायां दुर्घटनायां १४ जनाः मृताः। अद्य रात्रौ ७.४० वादने आसीदियं दुर्घटना। मृत्युसंख्या अधिका भविष्यतीति सूच्यते। १२३ जनाः आहताः विविधेषु आतुरालयेषु प्रवेशिताः। तेषु २५ यात्रिकानां स्थितिः आशङ्काजनका वर्तते। पर्यावरणस्य दुष्प्रभाव एव दुर्घटनाहेतुरिति सूच्यते।
वन्दे भारतदौत्ये अन्तर्भूतं विमानमेव दुर्घटनाग्रस्तमभवत्। अवतरणसमये महती वृष्टिरासीत् इत्यतः नियन्त्रणविनष्टं विमानं मार्गात् स्खलित्वा त्रिशत्पादपरिमिताम् अगाधतामपतत्। निपातस्य आघातेन विमानं द्विधा छिन्नमभवत्। विमाने आहत्य १९१ जनाः आसन्निति सूच्यते।
विमानचालकः सहचालकश्च मृतेषु अन्तर्भवतः।
इटुक्की > केरलस्य इटुक्की जनपदे मून्नार् समीपस्थे राजमला स्थाने ह्यः रात्रौ महत्भूस्खलनं सञ्जातम्। चत्वारः मृतदेहाः दुर्घटनास्थानात् अभिदर्शिताः। चतुरान् जनान् आतुरालयं प्रवेशिताः।
राजमलाप्रदेशस्थे 'कण्णन् देवन्' चायकेदारभूमौ कर्मकराणां निवासस्थाने इयं दुर्घटना दुरापन्ना। उपशतं कर्मचारिणः तत्र निवसन्ति। रात्रौ दुर्घटना अभवदित्यतः कतिजनाः दुर्घटितभूताः जाता इति निर्णयः दुष्करः अस्ति।
तृशूरतः दुरन्तनिवारणसेनायाः द्वौ संघौ दुरन्तस्थानं प्रस्थितौ । प्रदेशवासिनां साहाय्येन आरक्षकाणां संघः एव रक्षाप्रवर्तनं कुर्वन्नस्ति। मार्गमध्ये वर्तमानः 'पेरियवरा'सेतुः भूस्खलने नष्टः जातः इत्यतः रक्षाप्रवर्तकानां दुरन्तस्थानप्राप्तिः दुष्करं वर्तते। ६७ जनाः तत्र लग्नाः इत्यूहते।
अयोध्या> श्रीराम जन्मभूम्यां 'राम लल्ल' देवालयस्य निर्म्माणसमारम्भः समभवत् । प्रधानमन्त्रिणा मोदिना भारतराष्ट्रस्य प्रतिनिधी भूत्वा रजतशिलान्यासेन शिलान्यासमकरोत् । राष्ट्रकल्याणाय भवति इदम् इति सङ्कल्पपूर्वकं मन्त्रोच्चारणेन सह आसीत् क्रियाकलापः। ४० किलोमिता भवति रजतशिला। राष्ट्रिय स्वयंसेवक सङ्घस्य अध्यक्षः मोहन भागवतः उत्तरप्रदेशस्य राज्यपालिका आनन्दी बन पट्टेलः मुख्यमन्त्री योगी आदित्यनाथ-प्रभृतयैः आनीतैः नवशिलाः च स्थापितेषु सन्ति। क्रिया कलापानन्तरम् देवालय चित्रमुद्रितम् निर्यासमुद्रा (Stamp) प्रधानमन्त्रिणा प्रकाशिता। देवालयभूमौ शिलान्यासात् पूर्वं पारिजातस्य बालवृक्षरोपणमपि तेन कृतम्। प्रधानमन्त्रिणं विहाय १८५ जनाः भागभाजः अभवन्। तेषु १३५ सन्यासिनः च आसन्।