OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 22, 2020

 विषबाधितः रूस् विपक्षनेता अतिसङ्कीर्णावस्थायाम्। 

      मोस्को>  गतगुरुवासरे रूस्  राष्ट्रस्य विपक्षनेता अलक्सि नवल्नि नामकः विषबाधितः आतुरालयं प्रवेशितः। तस्य अवस्था अतिसङ्कीर्णा वर्तते इति सूच्यते। श्रेष्ठचिकित्सार्थं जर्मनीं नेतुं भिषग्वरैः अनुज्ञा दत्ता।

  सैबीरियायाः मोस्कोनगरं प्रति यात्रामध्ये सः गरलबाधितः अभवत्। रूस् राष्ट्रपतेःनितान्तविमर्शकः अस्त्ययम् इत्यतः यः कोऽपि चायपानीयेन सह विषमदादिति तस्य अनुयायिवृन्दैः उक्तम्। 

  इदानीं सः सैबीरियास्थे आतुरालये वर्तते। तत्रत्यैः भिषग्वरैः परिशोधनायां रक्तमूत्रादिषु विषांशः न प्रत्यभिज्ञातः । कोविड् रोगव्यापनस्य कारणतः सीमापिधानं वर्तते इत्यतः श्रेष्ठचिकित्सायै राष्ट्रान्तरगमनमशक्यमिति सर्वकारेण सूचितमासीत्। किन्तु  तस्य प्राणरक्षणाय प्रतिषेधे शक्ते जर्मनीं नेतुमनुज्ञा दत्ता आसीत्। जर्मनी फ्रान्स् इत्यादिराष्ट्राणां नेतारः साहाय्यवाग्दानं कृतवन्तः।