OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, August 7, 2020

केरले विमानदुर्घटना- १४ मरणानि ; १२३ आहताः

कोष़िक्कोट् > केरले कोष़िक्कोट् जनपदस्थे करिप्पूरविमाननिलये दुबाय्तः प्राप्तं एयर् इन्डिया संस्थायाः १३४४ इति एक्स् प्रेस् विमानं अवतरणमार्गात् स्खलित्वा जातायां दुर्घटनायां १४ जनाः मृताः। अद्य रात्रौ ७.४० वादने आसीदियं दुर्घटना।  मृत्युसंख्या अधिका भविष्यतीति सूच्यते। १२३ जनाः आहताः विविधेषु आतुरालयेषु प्रवेशिताः। तेषु २५ यात्रिकानां स्थितिः आशङ्काजनका वर्तते।  पर्यावरणस्य दुष्प्रभाव एव दुर्घटनाहेतुरिति सूच्यते। 

  वन्दे भारतदौत्ये अन्तर्भूतं विमानमेव दुर्घटनाग्रस्तमभवत्। अवतरणसमये महती वृष्टिरासीत् इत्यतः नियन्त्रणविनष्टं विमानं मार्गात् स्खलित्वा त्रिशत्पादपरिमिताम् अगाधतामपतत्। निपातस्य आघातेन विमानं द्विधा छिन्नमभवत्। विमाने आहत्य १९१ जनाः आसन्निति सूच्यते। 

  विमानचालकः सहचालकश्च मृतेषु अन्तर्भवतः।