OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 22, 2020

 कोरोण वैराणुव्यापनं वर्षद्वयाभ्यन्तरे नियन्त्रणाधीनं भविष्यति। - WHO

          जनीव> वर्षद्वयाभ्यन्तरे कोरोण वैराणुव्यापनं नियन्त्रणाधीनं भविष्यति इति प्रतीक्ष्यते इति विश्वस्वास्थ्य संस्थायाः अध्यक्षेण  ड्रोस् अथानों गब्रियेसस् वर्येणोक्तम्। 1918-तमे आवेदितं स्पानिष् फ्लू रोगं वेजेतुं वर्षद्वयं  स्वीकृतम् इत्यपि तेन सूचितम्। किन्तु तस्मात् कालात् अधिकतया अधुनिकसुविधायाः प्रगत्या अल्पेन कालेनेव वैराणुव्यापनं  रोद्धुम् वयं सक्षमो भवामः इत्यपि तेनोक्तम्। 

स्पानिष् ज्वरेण 50 दशलक्षं जनाः मृताः आसन्। 22.7 दशलक्षं जनाः कोरोणया बाधिताः - तेषु ८ लक्षं जनः मृताश्च इति तेन स्मारितम्।