OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 17, 2020

 भारते कोविड्मरणानि ५०,००० अतीतानि।

  • रोगमुक्तिप्रतिशतता ७२। 
  • मृत्युप्रतिशतता २ ।

       नवदिल्ली> भारते कोविड्रोगबाधया मृतानां संख्या पञ्चाशत्सहस्रमतीता। गतदिने ९४४ जनाः मृत्युमुपगता इति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। आहत्य मरणानि ५०,१२२ । 

  २५,९४,११२ जनाः अद्यावधि राष्ट्रे कोविड्बाधिताः अभवन्। सम्प्रति प्रतिदिनसंक्रमणसंख्या षष्टिसहस्रमतीता। शनिवासरे ६३,४९० जनेषु रोगबाधा  दृढीकृता। विश्वस्मिन् भारतम् एतस्मिन् विषये तृतीयस्थानमावहति। 

  किन्तु रोगमुक्तिप्रतिशतता ७२ इत्याश्वासदायकं वर्तते। १८.६३ लक्षं जनाः विरुजः जाताः। मृत्युमानमपि १.९३ इति न्यूनतरं वर्तते।