OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 15, 2020

आत्मनिर्भरभारतम् इत्ययं १३० कोटि जनानां मन्त्रः अभवत् - नरेन्द्रमोदी।

    नवदिल्ली> 'सेवा परमो धर्मः' इति मन्त्रम् उदीर्य  कोविड् वैराणुं विरुद्धय युद्धं कुर्वन्तः वीराः  जनसेवां कुर्वन्ति इति भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। तान् प्रति कृतज्ञतां प्रकाशयति इति सः अवदत्।  स्वातन्त्रतादिनसमारोहे रक्तदुर्गे राष्ट्रं प्रति अभिसंबोधनं कुर्वन्नासीत्  प्रधानमन्त्री। इदानीं वयं दुष्टकालेन सह गच्छन्तः भवामः। स्वतन्त्रतायैः युद्धं कृताः वीरपुरुषाः अस्मिन् दिने अस्माभिः स्मर्तव्याः। अपि च अस्माकं सुरक्षायैः तिष्टतः सैनिकान् प्रति  धन्यवादार्पणाय भवति इदं दिनम्। कोविड् महाव्याधिकाले भारतीयाः स्वाश्रयाय दृढनिश्चयं कृतवन्तः अभवन्। आत्मनिर्भरं भारतम् इति भारतम् अधुना चिन्तयति। १३० कोटि जनानां स्वप्नरूपेण मन्त्ररूपेण च परिवर्तितः आत्मनिर्भरं भारतम् इति मोदिना उक्तम्।