OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, August 7, 2020

केरले भूस्खलनेन महान् दुरन्तः ; चत्वारि मरणानि , अनेके दुर्घटीभूताः।

 इटुक्की > केरलस्य इटुक्की जनपदे मून्नार् समीपस्थे राजमला स्थाने ह्यः रात्रौ  महत्भूस्खलनं सञ्जातम्। चत्वारः मृतदेहाः दुर्घटनास्थानात् अभिदर्शिताः। चतुरान् जनान् आतुरालयं प्रवेशिताः। 

 राजमलाप्रदेशस्थे 'कण्णन् देवन्' चायकेदारभूमौ कर्मकराणां निवासस्थाने इयं दुर्घटना दुरापन्ना। उपशतं कर्मचारिणः तत्र निवसन्ति। रात्रौ दुर्घटना अभवदित्यतः कतिजनाः दुर्घटितभूताः जाता इति निर्णयः दुष्करः अस्ति। 

  तृशूरतः दुरन्तनिवारणसेनायाः द्वौ संघौ दुरन्तस्थानं प्रस्थितौ । प्रदेशवासिनां साहाय्येन  आरक्षकाणां संघः एव रक्षाप्रवर्तनं कुर्वन्नस्ति। मार्गमध्ये वर्तमानः 'पेरियवरा'सेतुः भूस्खलने नष्टः जातः इत्यतः रक्षाप्रवर्तकानां दुरन्तस्थानप्राप्तिः दुष्करं वर्तते। ६७ जनाः तत्र लग्नाः इत्यूहते।