संस्कृतविश्वविद्यालयपरिसरः निशाशलभैः सम्पन्नः।
जैववैविध्यानुशीलनं कृतवन्तः के ए श्रीजीत्, पि जि मनोज्, पि धन्या, ऐश्वर्या सुरेष्, टि आदर्शः च।
कालटी> श्रीशङ्कराचार्य संस्कृत विश्वविद्यालयस्य आस्थानकेन्द्रं कालटीपरिसरः जैववैविध्यैः सम्पन्न इति अनुशीलने प्रत्यभिज्ञातम्। शलभेषु निशाशलभेषु च अधिकं जैववैविध्यम् अत्र दृश्यते। केरले इतःपर्यन्तं प्रत्यभिज्ञातेषु २२१५ निशाशलभजातिप्रकारेषु [species] ३६३ वर्गाः अत्र विद्यन्ते। विश्वविद्यालयस्य 'सुकृति' नामकस्य अरण्यसमाजस्य [Forestry club] नेतृत्वे आसीत् जैववैविध्यस्य आधिकारिकम् अङ्कनं कृतम्।
२०२४ ओक्टोबरमासे अनुशीलनं समारब्धम्। ऊर्णनाभः (१६ जातिप्रकाराः), सस्यानि (१४१ जातिप्रकाराः), मण्डूकः (६ जातिप्रकाराः), सर्पाः (८ जातिप्रकाराः) इत्येते च कालटी मुख्यपरिसरे विद्यन्ते। भौमशास्त्रे शोधच्छात्रः टी आदर्शः, समाजसदस्यौ तथा आंगलेयविभागे शोधच्छात्रे ऐश्वर्या सुरेषः, पी धन्या, चरित्रविभागे गवेषकः के ए श्रीजित्, विश्वविद्यालयस्य ग्रन्थशालातः सेवानिवृत्तः जीविनिरीक्षकः पी जी मनोजः इत्येतैः एव अनुशीलनानन्तरम् आवेदनपत्रं सज्जीकृतम्। पि जी मनोजेन प्रोक्तं यत् परिसरात् अधिगम्यमानानां जीविनां चित्राणि Eye naturalist platform इत्यत्र उपारोपणं [upload] कृत्वा Geo-tag क्रियन्ते च। अनन्तरं कृत्रिमबुद्धिमत्तायाः (AI) साहाय्येन प्रत्यभिज्ञायन्ते। आविश्वं शास्त्रज्ञाः प्रकृत्यनुशीलनकुशलाश्च इमानि अधिगमनानि स्थिरीकुर्वन्ति।
स्वकीयपक्षिसङ्केतेन विद्यमानः केरलस्य एक एव परिसरः भवति कालटी संस्कृतविश्वविद्यालयपरिसरः।