विविधेन्धनवाहनानाम् उपयोगं वर्धापयितुं केन्द्रप्रशासनम्।
८५% एथनोल् युक्तेन्धनं प्रयुज्यते।
मुम्बई> राष्ट्रे विविधेन्धनवाहनानाम् [Flex Fuel Vehicles] उपयोगः वर्धापयिष्यते इति केन्द्र पेट्रोलियं-प्रकृतिवायुविभागस्य मन्त्री हरदीप सिंह पुरी प्रावोचत्। तदर्थं ८५% एथनोल् युक्तवाहनानि राष्ट्रे व्यापकं कर्तुं प्रचारं विधास्यति। पेट्रोलियेन्धनस्य आयातं नयूनीकर्तुमेव अस्य उद्देश्यमिति मन्त्रिणा प्रोक्तम्।
प्रारम्भस्तरे दिल्ली-एन् सि आर् क्षेत्रं, पूने,नासिक् इत्येतेषु स्थानेषु अभियोजनेयं विधास्यते। ५०० एथनोल् उत्क्षेपणयन्त्राणि [pump] अचिरेण एषु स्थानेषु सज्जीकरिष्यन्ति। वर्षेणैकेन उत्क्षेपणयन्त्राणां संख्या ५००० इति वर्धिष्यते। मारुति सुसुकी संस्थायाः फ्लेक्स् फ्यूवल् वाहनं 'वागण् आर्' इत्यस्य प्रस्तितिवेलायामासीत् मन्त्रिणः अयं प्रस्तावः।