रेलमार्गसम्बन्धज्ञापनानि अधुना अङ्गुल्याग्रे- इन्द्रजालसंख्या: दत्वा अधिकारिणः।
वेतनवर्धनं न्यूनमेव - केन्द्रसर्वकारोद्योगिनः समरं प्रति गच्छन्ति।
नवदहली > सप्तमं वेतनसमितेः प्रख्यापितः नूतनवेतनसम्प्रदाय: अपर्याप्तः इति कारणात् केन्द्रसर्वकारोद्योगिनां विविधसङ्घानां संयुक्तसमित्या समरकार्यक्रमः प्रख्यापितः। अस्य मासस्य ११ दिनाङ्कादारभ्य अनिश्चितकालात्मकः एव समरः। नाषणल् जोयिन्ट् कौण्सिल् एव समराय आह्वानम् अकरोत्। उद्योगिनां ६ सङ्घानां संयुक्तसमितिरेव इयम्। आधारवेतनं ७००० इति संख्यायाः १८००० इति परिवर्तितमासीत्। किन्तु एतत् अपर्याप्तम्, आधारवेतनम् २६००० इति परिवर्तनीयम् इत्येव समिते: निवेदनम्। समित्या: नेतृभि: आभ्यन्तरसचिव: राजनाथसिंहः, आर्थिकसचिव: अरुण् जयट्ली, रेलसचिवः सुरेष् प्रभुः इत्यादिभिः सह जूण् ३० तमे दिनाङ्के चर्चा कृता आसीत्। ततः परमेव समित्या समरप्रख्यापनमकरोत्।
अन्तर्जालवेगम् अवलोकयितुं नूतनं 'आप्'।
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhVBmbvF5rzhiURHTCjqnS4B9FdxM0Cjw9HuO6DstkuMBq_DRYmjlR0MXokd2VFMVIkJ4kwzBpcX7vq6tn99h1a_9rEIcLefs39_cpJDfsGvJvaxCqgISIHtesl6isn1GDxNlBub4_N2qSy/s200-rw/662f32a063313521d39d72d98329e173b3ee7ad2.jpeg)
कानडायां किरीटं संप्राप्य भारतीयक्रीडकाः
काल्गरी > कानडा ओप्पण् ग्रान्ट् प्री बाड्मिण्टन् स्पर्धायां किरीटं संप्राप्य भारतीयाः। पुरुषविभागे बि साय् प्रणीतः पुरुषाणां द्वन्द्विविभागे मनु अत्रिः-सुमीत् रेड्डिः संख्यं च किरीटं प्रापयत्। बाड्मिण्टन् क्रीडामण्डले साय् प्रणीतस्य प्रथमं किरीटं भवत्येतत्। मनु अत्रिः-सुमीत् रेड्डिः संख्यं रियो ओलिम्पिक्स् मध्ये भारतस्य कृते क्रीडिष्यते च।
अङ्गपरिमितेभ्य: ३% संवरणं दातव्यम् - उच्चतरन्यायालय:।
नवदहली > सर्वकारोद्योगेषु अङ्गपरिमितेभ्य: उद्योगार्थिभ्यः ३% संवरणं कल्पनीयमिति उच्चतरन्यायालयस्य कल्पना। अधुना सर्वकारस्य सर्वेष्वपि विभागेषु अङ्गपरिमितविभागानां संवरणे परिधिरासीत्। तदेव उच्चतरन्यायालयेन परिवर्तितम्। इदानीं सर्वेष्वपि विभागेषु तेभ्यः ३% संवरणं लभ्यते। प्रसारभारती मध्ये कस्यचित् नियमसम्बन्धनिवेदनस्य चर्चायामेव न्यायालयेन नूतनं प्रख्यापनमकरोत्।
भीमाकारिका दूरदर्शिनी निर्माय चैना।
बीजिङ् > अन्यग्रहेषु विद्यमानानां जीविनां निरीक्षणाय भीमाकारिकां दूरदर्शिनीं निर्माय शास्त्रलोकं प्रति चैनाया: योगदानम्। 'नाषणल् अस्ट्रोणमिक्कल् ओब्सर्वेषन्' भवति दूरदर्शिन्याः निर्माता। चैनायां शास्त्रसाङ्केतिककार्यक्रमाणां गवेषणप्रवर्तनानां च निर्वहणं कुर्वतः 'चैनीस् अकादमी ऑफ सयन्सस्' इति संघस्य नेतृत्वे एव दूरदर्शिन्याः निर्माणप्रवर्तनानि आयोजितानि। इमां दूरदर्शिनीमुपयुज्य भूमेः १००० प्रकाशवर्षात् दूरस्थं वर्तमानं सर्वमपि रेडियो तरङ्गम् निरीक्षितुं शक्यते।
चतुर्दिनाभ्यन्तरे ग्रामे पत्रालयम् उद्घाट्य वार्ताविनिमयमन्त्रालयः।
नवदहली > नरेन्द्रमोदिनः सर्वकारस्य विमर्शकेषु प्रमुखः एव राजदीपसर्देशाय्। प्रसिद्धः पत्रकार्यकर्ता अयं 'इंडिया टुडे' पत्रिकायाः सम्पादकः वर्तते। गतसप्ताहे अयं पत्रालयरहितं कमपि ग्रामं परामर्श्य सामूहिकमाध्यमे ट्वीट् कृतवान् आसीत्। किन्तु वृत्तान्तममुं ज्ञात्वा चतुर्दिनाभ्यन्तरे एव वार्ताविनिमयमन्त्रालयेन तस्मिन् ग्रामे पत्रालयमारभ्य प्रतिकरणं दत्तम्। एतत् सम्बन्ध्य सचिवेन रविशङ्करप्रसादेनैव प्रतिट्वीट् कृतं वर्तते। मोदीसर्वकारस्य कार्यक्षमतायाम् अद्भुतस्तब्धः एव अधुना राजदीपसर्देशाय्।
उत्तरप्रदेशे काण्ग्रस् दलं नेतुं प्रियङ्कागान्धी।
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgacnZ39X2nM0dpOoSl2HGWocrVQ4oGGzAgHePNuL1jBjQaER3ACuPPFUD5h2h5dL73YmurHaCVc9a9FUhkEzLda7ui1XrCyn9zmcqGKJaECZEgzreMxvpAAb5LADxjuF_weSEtRI7wRY26/s200-rw/congress-is-treading-cautiously-on-the-delicate-task-rolling-out-priyanka-gandhi-vadras-campaign-in-up.jpg)
संस्कृतप्रचारणाय आदर्शविद्यालयपद्धतिः समारब्धा।