OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 31, 2016

पादवार्षिकपरीक्षा आगस्ट् २९ आरभ्य।
अनन्तपुरी >केरळे विद्यालयेषु प्रथमपादवार्षिकपरीक्षा आगस्ट् नवविंशति दिनाङ्कादारभ्य सेप्तम्बर् सप्तमदिनाङ्के पर्यवसति। नीचतरस्तरेषु  मध्यमतरस्तरेषु च (एल्  पि,यूपि कक्ष्यासु) आगस्ट् त्रिंशत्तमदिनाङ्के एव प्रारम्भः।
    कलाकायिकपरीक्षाः अर्ध वार्षिक परीक्षया सहैव भवेत्। सेप्टम्बर् पञ्चमदिनाङ्के (अध्यापकदिनम् ) परीक्षा न भविष्यति।  किन्तु प्रवृत्तिदिनं भवेत्।

 कर्णाटकमुख्यमन्त्रिणः पुत्रः विदेशयात्रामध्ये मृतः।
बङ्गलुरु > कर्णाटकमुख्यमन्त्रिणः सिद्धरामय्यवर्यस्य पुत्रः कोण्ग्रस् दलस्य युवजनविभागस्य नेता च राकेष् सिद्धरामय्यः बल्जियं राष्ट्रे मृत्युमुपगतः।
    स्वस्य जन्मदिनं सुहृद्भिः सह आघोषयितुं गते रविवासरे बल्जियं गतवानासीत् राकेषः। किन्तु आग्नेयग्रन्थौ सञ्जातेन रोगेण बल्जिये आन्ट् वेर्प् विश्वविद्यालय चिकित्सालये प्रविष्टः आसीत्।  मूर्छितरोगः सः ह्यः दिवंगतः मरणसमये पितरौ , पत्नी , अपत्यानि , सोदरश्च समीपस्थाः आसन्। अन्त्येष्टिक्रियाः अद्य जन्मदेशे मैसुरुसमीपे सिद्धनहुण्टि प्रदेशे भविष्यति।