OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 30, 2016

आधारपत्रम् - निर्बन्धाः नास्ति।
 नवदहली > प्रतिपक्षदलानां प्रतिषेधेन आधार पत्रविषये केन्द्रसर्वकारस्य निर्णये परिवर्तनम्। सर्वकारस्य आनुकूल्यादिकं प्राप्तुम् आधार पत्रम् अवश्यं भवेदिति केन्द्रसर्वकारेण विज्ञापितमासीत् । किन्तु राष्ट्रे आधार् पत्रसम्पादनाय जनाः अधुना अपि प्रयत्नं कुर्वन्तः सन्तीति प्रतिपक्षदलैः विधानसभायाम् आरोपितमासीत्। एतत्समये ईदृशं विज्ञापनं सर्वकारं प्रतिकूलतया बाधते इति प्रत्यभिज्ञानमेव विज्ञापनस्य परिवर्तने मुख्यं कारणम् ।आधार पत्रवितरणस्य पूर्णतां प्राप्य एव एतद्विषये निर्बन्धः स्वीक्रियते इति सर्वकारेण विधानसभायां निवेदितम्।

रियो ओलिम्पिक्स् - नरसिंहस्य स्थाने प्रवीण् राणा।
 नवदहली > उत्तेजकौषधविवादेन बहिर्गन्तुं प्रेरितस्य नरसिंहस्य स्थाने रियो ओलिम्पिक्स् कृते बाहुयुद्धसङ्घे प्रवीण् राणस्य योजनं क्रियते इति भारतीया ओलिम्पिक्स् समितिः। किन्तु स्वस्थानपरिवर्तने गूढालोचना सञ्जाता इति नरसिंहेन प्रस्तावितमासीत्। सः एतत्प्रस्तावनायां दृढः एवेति नाडा न्यायालयस्य पुरतः तेन उक्तम्। एतद्विषये संवादाय अधिकः समयः आवश्यकःइति न्याय वादिभिः न्यायालये सूचितम्। तथापि नरसिंहस्य अनुकूलतया निर्णय: भविष्यतीति विश्वासः अस्तीति बाहुयुद्धसमित्‍याः कार्यदर्शिना वि. एन् प्रसूदेन उक्तम्।



मायावतीम् अधिक्षेपं कृतवान् भाजपा नेता करश्रृङ्खलाबद्धः।
 लख्नौ> बि एस् पि दलस्य नेत्रीं मायावतिवर्याम् आक्षिप्य विवादे संलग्नः उत्तरप्रदेशभाजपा दलस्य भूतपूर्व उपाध्यायक्षः दयाशङ्कर् सिंहः आरक्षकैः बद्धः। मायावतीमधिकृत्य विवादप्रस्तावानन्तरं दलात् बहिष्कृतः दयाशङ्करः निलीयमानः आसीत्। बीहारे बुक्सर् शर्कराव्यवसायानुबन्ध आवासस्थानादेव सः बद्ध अभवत्।