OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 23, 2016

२९ जनैः सह व्योमसेनाविमानम् अप्रत्यक्षमभवत्। 
चेन्नई> सैनिकोद्योगस्थसहितैः २९ जनैः सह चेन्नै ताम्बरं व्योमनिलयात् अन्तमानस्थं पोर्ट् ब्लेयर निलयं प्रति प्रस्थितं भारतव्योमसेनायाः ए एन् ३२ इति विमानम् अप्रत्यक्षम् अभवत्। ह्यः प्रभाते ८.३०वादने प्रस्थितात् विमानात् ८.४६वादने अन्तिमः सन्देशः आगतः। विमानं वंगसमुद्रे पतितमिति प्राथमिकनिर्णयः । विमानाय अन्वेषणं शीघ्रतया पुरोगम्यते।

मिस्टर् वेल्ड् पुरस्कारः भारतीयस्य कृते ।
  लण्टन् > रोहित् खण्डेल्वालः मिस्टर् वेल्ड् २०१६ । विश्वसुन्दरीपुरस्कारः भारतीयवनिताभिः बहुधा प्राप्तः वर्तते। किन्तु विश्वसौन्दर्यमत्सरे पुरस्कारः एकेन भारतीयेन पुरुषेण इदम्प्रथमतया एव प्राप्यते। २६ वयस्कः हैदराबाद् देशीयः रोहित् खण्डेल्वाल: एव २०१६ वर्षस्य विश्वसुन्दरः अभवत्। ब्रिटणे सौत्पोर्ट् मध्ये आसीत् सौन्दर्यमत्सरः। मत्सररङ्‌गे विविधेभ्यः राष्ट्रेभ्यः ४७ मत्सरार्थिनः आसन्। रोहित् प्रतिरूपाभिनेता वर्तते। पुरस्कारधनत्वेन ३०लक्षं रूप्यकाणि रोहितस्य कृते लभन्ते।

रियो डि जनीरो मध्ये रष्या नास्ति।
  लोसान् > ब्रसील् आतिथ्यं वहन्तं २०१६ ओलिम्पिक्स् मध्ये ट्राक् & फील्ड् विभागे रष्यायाः भागभागित्वं न भविष्यति। कतिपयदिनेभ्यः पूर्वम् उत्तेजकौषधविवादः रष्यायाः सङ्‌घस्योपरि आरोपितः आसीत्। तेन च अत्लटिक्स् भरणसमितिः सङ्‌घस्योपरि निरोधनं प्रख्यापितमासीत्। निरोधनस्य प्रतिग्रहणाय सङ्घेन समर्पितं निवेदनम् अन्ताराष्ट्र-कायिकतर्कपरिहार न्यायालयेन (कास्) ह्यः तिरस्कृतम्। रष्यासर्वकारस्य अनुमत्या क्रियमाणः उत्‍तेजकौषधोपयोग: अङ्गीकर्तुम् अशक्य एवेति निवेदनस्य परिगणनावेलायां न्यायालयेन सूचितम्। एवञ्च आरोपणविधेयानां ६८ क्रीडकाणाम् अर्हता नष्टा जाता।