OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 18, 2016

काश्मीरे वार्तापत्राणां निरोधः
 श्रीनगर् > काश्मीरे सङ्घर्षबाधितमण्डलेषु वार्तापत्राणां मुद्रणं वितरणं च निरोधितम्। दिनत्रयाणां निरोधः एव प्रख्यापितः वर्तते। विविधेषु माध्यमस्थापनेषु मुद्रणालयेषु च आरक्षकैः अप्रख्यापितपरिशोधनां कृत्वा वार्तापत्राणां लेखानां च प्रतिकृतयः स्वीकृतवन्तः। एतासु काश्मीरे प्रचुरप्रचारं प्राप्तस्य 'ग्रेट्टर् कश्मीर्' नामकस्य पत्रस्य ५०००० प्रतिकृतयः अपि अन्तर्भूताः च। सङ्घर्षबाधितमण्डलेषु स्वस्थतां पुनःस्थापतयितुमेव एतत् निरोधनमिति सर्वकारवक्त्रा नयीम् अक्तरेण उक्तम्। किन्तु निरोधनं प्रतिनिवर्तनीयम् इत्युक्त्वा विविधेभ्यः मण्डलेभ्यः प्रतिषेधः आरब्धःवर्तते।

प्रधानमन्त्री कौशल् योजनायै मन्त्रिसभाङ्गीकारः
      नवदहली > वर्षचतुष्टयाभ्यन्तरे १ कोटिजनेभ्यः नैपुण्यपरिशीलनं लक्ष्यीकृत्य आयोजिता 'प्रधानमन्त्री कौशल् योजना' केन्द्रमन्त्रिसभया अङ्गीकृता। प्रधानमन्त्रिणः आध्यक्षे संवृत्ते योगे एव अनुमतिः लब्‍धा। अस्याः पद्धतेः १२००० कोटि रुप्यकाणां व्ययः प्रतीक्ष्यते। ६० लक्षं युवकेभ्यः नूतनं परिशीलनं दीयते। रेकग्नेषन् ओफ् प्रयोर् लेणिङ् इत्यस्य परिशीलनं पूर्तीकृतेभ्यः ४० लक्षं जनेभ्यः प्रमाणपत्रमपि दीयते।


 गुजराते पुनरपि भूकम्पः।
  अहम्मदाबाद् > दक्षिणगुजराते भूकम्पः सञ्जातः। रिक्टर्  स्केल् मध्ये ४.७ इति तीव्रतां सूचितः भूकम्पः श्वः दिने ९.२४ वादने एव सञ्जातः। सूरत् तः १४ किमी. दूरे आसीत् भूकम्पस्य प्रभवकेन्द्रम्। रन्धेर्,अम्रेली,सवर्कुण्डला, अदाजन् इत्यादिषु मण्डलेष्वपि भूकम्पः अनुभूतः।

प्रोफ. अरुमानूर् निर्मलानन्दः दिवंगतः। 
अनन्तपुरी >संस्कृतवेदान्तपण्डितः , साहित्यकारः , सांस्कृतिक-जीवकारुण्यप्रवर्तकश्च प्रोफ. अरुमानूर् निर्मलानन्दः - ६७ - निर्यातः। अनन्तपुरी सर्वकारीय संस्कृत कलालये आचार्य आसीत्। मिश्रविवाहसंघस्य केरलराज्यसचिवः भारतीय रेड् क्रोस् संस्थायाः राज्यसचिवप्रमुखः देशीयोपाध्यक्षः , भारतीयसंस्कृतभाषाप्रचारणसमित्याः देशीयाध्यक्षः इति बहूनां संघटनानां नेतृस्थानमलंकृतवानयं महानुभावः।  श्रीशङ्करस्य सम्पूर्णकृतीनां विवर्तनं व्याख्यानं च कृतवानयं षेक्स्पियर् कालिदासः भासः इत्यादीनां कृतीः अपि भाषान्तरीकरणं कृतवान्। *केरळश्रीपुरस्कारः केन्द्रसर्वकारस्य संस्कृतभाषापण्डितपुरस्कारः मानवसेवापुरस्कारः इत्यादयः चत्वारिंशदधिकाः पुरस्काराः अनेन लब्धाः।