OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 7, 2016

रेलयानप्रवेशानुमतिपत्रसंवरणाय अन्यसेवनेभ्यः च आधार् पत्रम् आवश्यकम्
    नवदहली > रेलयाने यात्रायै आधार् पत्रम् आवश्यकम्I रेलयात्रायै इत: आरभ्य आधार् पत्रं समर्पणीयमिति रेलमन्त्रालयेन निर्णयः स्वीकृतः । एवमेव रेलयानयात्रासम्बन्धतया विविधानां सेवनानाम् आनुकूल्यानां च प्राप्तये अपि आधार् आवश्यकं भवति। आंशिकरूपेणैव नियमोऽयं प्राबल्यम् आनयति। प्रथमं सेवनेभ्यः आनुकूल्येभ्यः च आधार् पत्रस्य निर्बन्धः आविष्क्रियते। तत्र वयोधिकानां, छात्राणां, विकलाङ्गानां च प्रवेशानुमतिपत्रमूल्यस्य आनुकूल्याय आधार् पत्रस्य आवश्यकता संस्थाप्यते। एतत्‍तु पञ्चदशदिनाभ्यन्तरे प्राबल्यं सम्पादयिष्यतीति रेल्मन्त्रालयं सूचयति। अनन्तरं प्रवेशानुमतिपत्रसंवरणे आधारपत्रनिर्बन्धः आविष्क्रियते। सामूहिकमण्डलेभ्यः उन्नीयमानं विरोधम् ऊह्य एव आंशिकद्वयेन नियमस्यास्य प्राबल्यं संस्थाप्यते ।

लयणल् मेसये दण्डनव्यवहारः।
    माड्रिड् (स्पेयिन्)> विश्वक्रीडकाय लयणल् मेसये करसमर्पणकापट्ये २१ मासानां कारागृहवासस्य दण्डनव्यवहारः। एतदतिरिच्य २०लक्षं यूरो (प्रायः ३० कोटि रूप्यकाणि) अपि दातव्यमस्तिI मेसिना सह स्वपिता अपि दण्डनव्यवहारस्य पात्रो जातः I२००६-२००९ काले कारसमर्पणे मेसिना पित्रा च कापट्यं प्रदर्शितम् इत्येव अन्यायः। स्पेयिन् राष्ट्रस्य बार्सलोणा न्यायालयेनैव विधिः प्रख्यापिता । तथापि कारागृहवासे मेसये आनुकूल्यं लभ्यते इत्यपि विदग्धाः सूचयन्ति।

ओस्कार् प्रिस्टोरियसस्य कृते कारागृहवासः ।
  प्रिटोरिया > पारालिम्पिक्स् मध्ये (विकलाङ्‌गानां कायिकपरम्परा) सुवर्णपतकविजेता ओस्कार् प्रिटोरियस् ६ वर्षा...णां कारागृहवासाय कल्पित:।प्रिटोरिया उच्चन्यायालयस्यैव कल्पना। रीवा स्टीव् काब् इति नामिकां स्व प्रणयिनीं गोलिकाप्रहारेण मारितः इत्येव अन्यायः। २०१३-फेब्रुवरि ४ दिनाङ्के एव मारणं सञ्जातम्। अन्यायेऽस्मिन् केवलं ६ वर्षाणां कारागृहवासः इत्येतत् ह्रस्वः एव कालः इति जनानाम् अभिप्रायः , प्रायः पञ्चदशवर्षात्मकः काल: आवश्यकः इति सामूहिकः अभिप्रायः आसीत्I तथापि स्पेयिन् उच्चतरन्यायालये निवेदनसमर्पणाय प्रिस्टोरियस् कृते अवसरः लभ्यते।


उत्तरप्रदेशे प्रियङ्‌कां प्रतिरोद्धुं स्मृती इरानी।   
 नवदहली > मोदीसर्वकारस्य पुनःसंघाटनेन स्थानचलनं प्राप्ता अधुनातन वस्त्रव्यापारमन्त्रालयसचिवा स्मृती इरानी उत्तरप्रदेशस्थनिर्वाचने प्रियङ्‌का गान्धिनीं  प्रतिरोद्धुं नियुज्यते इति सूचना। तदर्थमेव ह्रस्वकालिकम् एतत् स्थानचलनम् इति राष्ट्रियवृत्‍तान्तद्वारा  सूचयन्ति। २०१४ तम लोकसभानिर्वाचने अमेठीमण्डले, राहुल् गान्धिं प्रतिरुद्ध्य श्रद्धां प्राप्तवती एव स्मृती इरानी। ततः मोदिन: सविशेषतात्पर्यं सम्पाद्यैव तया राज्यसभाङ्गत्वं प्राप्तं वर्तते।

प्रधानमन्त्री आफ्रिक्कासन्दर्शनाय प्रस्थितः। 
नवदिल्ली - पञ्चदिनात्मक  आफ्रिक्कन् राष्ट्रसन्दर्शनार्थं भारतप्रधानमन्त्री नरेन्द्रमोदी प्रस्थितः। अद्य प्रभाते मोसांबिक राष्ट्ं प्राप्नुवन् मोदीवर्यः तत्रत्येन राष्ट्रपतिना सह मेलिष्यति।  अनन्तरं दक्षिणाफ्रिक्का केनिया टान्सानिया राष्ट्राणि सन्दर्श्य तत्रत्यैः राष्ट्रनेतृभिः सह मेलनं कृत्वा राष्ट्रप्रगत्यर्थानि कार्याणि चर्चिष्यति।
  जोहन्नास्बर्ग् नेय्रोबि इत्यादिनगरेषु भारतसमाजैः  आयोज्यमानेषु सम्मेलनेषु प्रभाषणं करिष्यति च।