अतिवृष्टिः - जनजीवनं दुष्करम्।

व्योमसेनाविमानस्य अन्वेषणाय अमेरिकायाः साहाय्याय भारतम्।
नवदहली > गतसप्ताहे चेन्नैतः यात्रामारभ्य अप्रत्यक्षस्य व्योमसेनाविमानस्य अन्वेषणाय भारतेन अमेरिकायाः साहाय्यम् अभ्यर्थितम्। प्रतिरोधसचिवः मनोहरपरीकर: एतत् न्यवेदयत् । अप्रत्यक्षात् पूर्वं विमानात् कापि सूचना अमेरिकायाः उपग्रहेभ्यः लब्धा वा इति परिशोधयिष्यतीति प्रतिरोधसचिवेन उक्तम्। विमानस्य अप्रत्यक्षे शत्रवेभ्यः जायमानस्य दुष्कृतस्य साध्यताः तेन तिरस्कृताः। 'सिन्धुध्वज्' नामिका अन्तर्वाहिनी , नाविक सेनाया: १० महानौका: च अन्वेषणं कुर्वन्तः सन्ति।
उभयपक्षचर्चा नास्ति।
नवदहली > इस्लामाबाद् मध्ये आगस्त् ४ दिनाङ्के जायमाने सार्क राष्ट्राणां योगे पाकिस्तान् नेतृभिः सह चर्चा कापि नास्तीति विदेशकार्यमन्त्रालयः। सार्कयोगे भारतं प्रतिनिधीकृत्य आभ्यन्तरसचिवः राजनाथसिंहः भागभागित्वं वहति। तस्यां वेलायां पाक् प्रधानमन्त्रिणा नवास् षेरीफेण , आभ्यन्तरमन्त्रिणा चौधरी निसार् अलिखानेन च सह राजनाथसिंहः चर्चां करिष्यतीति वार्ता: प्रचरिताः सन्ति। अत एव नूतनविशदीकरणं विदेशकार्यमन्त्रालयपक्षतः कृतं वर्तते। विदेशकार्यवक्ता विकासस्वरूपः एव विदेशकार्यमन्त्रालयाय विशदीकरणम् अयच्छत्। किन्तु पाकिस्तानपक्षतः भीकरप्रवर्तनानि उपेक्षणीयानि इति सार्कयोगे आभ्यन्तरसचिवेन अभ्यर्थ्यते इत्यपि विदेशकार्यमन्त्रालयेन सूचितम्।