OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 21, 2016

काश्मीर् समस्या भारतस्य आभ्यन्तरसमस्या न - नवास् षेरीफ्।
                  इस्लामाबाद् > काश्मीरे जायमानेषु प्रक्षोभकार्येषु भारतम् अचिरादेव पराजयम् अङ्गीकरिष्यतीति पाकिस्तान् प्रधानमन्त्री नवास् षेरीफ्। काश्मीरं प्रति ऐक्यदार्ढ्यं प्रख्या पयित्वा कृते प्रतिषेधयोगे एव तेन एवं सूचितम्। काश्मीरजनानाम् अवकाशान् आदृत्य जनहितपरिशोधनायै भारतं सज्जं भवतु इति तेन अभ्यर्थितम्। समस्येयं भारतस्य आभ्यन्तरविषयः न, सः प्रदेशः तर्कप्रदेशः अथवा विवादप्रदेश एवेति ऐक्यराष्ट्रसंस्थया अपि उक्तः भवतीति तेन स्मारितम्।

रियो ओलिम्पिक्स् : व्रणप्रतिरोधाय अपि 'आप्‌'।
  टोकियो > रियो ओलिम्पिक्स् भागभागिनाम् आश्वासाय नूतनम् 'आप्‌'निर्मितम्।अभ्यासवेलायां मत्सरवेलायां च सम्भाव्यमानानां व्रणादीनां प्रतिरोधाय उपयुक्तं भवदिदम् 'आप्'। 'लोगिन्' इति नाम दत्तम् तत् आप् जपान् केन्द्रीकृत्य प्रवर्तमानेन' रैट्‌ ब्लू ' इति नामकेन सङ्‌घेन एव निर्मितम्। मत्सरानुबन्धतया क्रीडकेभ्यः आरोग्यसम्बन्धा: उपदेशा:, निर्देशा: , उपायाः च अनेन आप् द्वारा लभन्ते। विश्वकायिकमेलायै इतः १६ दिनान्येव अवशिष्यन्ते।

 सि बि एस् ई विद्यालयानां निरीक्षणं सर्वकारस्य दायित्वम् - बालावकाशसमिति:।
    तृश्शूर्  (केरलम्) > राज्ये सि बि एस् ई विद्यालयानां निरीक्षणादिकं कर्तुं सर्वकारपक्षतः श्रद्धा आवश्यकीति राज्यस्तरीया बालावकाशसअन्यानि चमितिः। सि बि एस् ई विद्यालयानां उपरि विरुद्धाभिप्रायाः प्रतिदिनं वर्धमानाः सन्तीति समितेः अङ्‌गौ ग्लोरी जोर्ज, बाबु नरिक्कुनिः च सूचितवन्तौ। सि बि एस् ई विद्यालयेषु अनियन्त्रितं पठनशुल्कवर्धनम्, अकारणतया भर्त्सनं, मानसिकपीडनं, शुल्काय उपस्थितेः न्यूनीकरणम् इत्येवं बहूनि अधार्मिकप्रवर्तनानि सन्तीति संसूच्य बहवः अन्यायाः समितेः पुरतः लब्धा: इति समितिः अवदत् । विद्यालयेषु पाठ्यपद्धतिः या कापि भवतु किन्तु छात्रसंरक्षणमानदण्डाः सर्वेभ्यः समानाः एवेति समित्‍या अभिप्रेतम्। विद्यालयानुमतिः सर्वकारेण दीयमानावस्थायाम् अनुमतेः असाधुत्वम् अपि कर्तुं सर्वकारस्य अधिकारः वर्तते इति समित्‍या स्मारितम्। सि बि एस् ई मध्ये शनिवासरेषु पञ्चमकक्षापर्यन्तम् अध्ययनं मा भवतु इति समित्या पूर्वं सूचितमासीत्।

 वास्तुशिल्पी सिड्नी कोरी निर्यातः ।
कोच्ची>लोकप्रशस्तवास्तुशिल्पी द्वितीयलोकमहायुद्धभटश्च सिड्नी कोरी वर्यः - ९३- दिवमगात्।
    आधुनिक षिल्लोङ् नगरस्य शिल्पिना कोरि वर्येण  मेघालयामुख्यमन्त्रिणः औद्योगिकवसतिसहिताः सर्वकारवाससमुच्चयाः अन्यानि च अनेकानि  भवन- चिकित्सालय- कलालयादिमन्दिराणि शिल्पवैदग्ध्यवशात्  रूपवत्कृतानि। सैनिकसाङ्केतिकविदग्धे सति ब्रिट्टीष् बर्मायां द्वितीये लोकमहायुद्धे भागभागित्वं कृतवान् । ततः ब्रिट्टन् सर्वकारस्य बर्मतारं पुरस्कारेण आदृतः। केरलानां वनम् अधिकारी डो. ब्रान्सन् कोरी इत्यस्य पुत्रः अस्ति।

संस्कृतं विज्ञानस्य भाषा च- राष्ट्रिय-संस्कृत-पत्रकार-संगोष्ठी
 लखनौ>उत्तरप्रदेशसंस्कृतसंस्थाने आयोजितायां द्विदिवसीयराष्ट्रियसङ्गोष्ठी संपूर्णमभवत्। संस्कृतं केवलं साहित्य-सांस्कृतिकभाषा न वैज्ञानिकभाषा च इति डा. बलदेवानन्दसागरः स्वस्य भाषणे अवदत् । संस्कृत-पत्रकारिताया: विविधा: आयामा: (इतिहास-प्रकाशन-सम्पादन-पाठक-ग्राहक-लेखन-विज्ञापन-मानकभाषा-सम्बद्धा:) अभिलक्ष्य विंशति: शोधपत्राणि सङ्गोष्ठ्यां उपस्थापितानि।