OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 17, 2016

मल्लयुद्धे विजयेन्द्रविजयः एव विजयी
नवदिल्ली > वृत्त्यात्मकमल्लयुद्धे (Professional Boxing) भारतस्य विजेन्द्र सिंहः अनुस्यूततया सप्तमवारं विजयसोपानं प्राप्तवान्। दिल्ल्यां त्यागराज कायिकसौधे सम्पन्ने आस्ट्रेलिया स्वदेशीयं केरि होप् नामकं पराजित्य एव विजेन्द्रः किरीटं प्राप्तवान्। वृत्त्यधिष्ठित मल्लयुद्धस्पर्धासु विजेन्दर् सिंहस्य प्रथमकिरीटलाभः एषः।

भारतीयछात्राः सुरक्षिताः
 नवदहली > तुर्कीराष्ट्रे प्रचाल्यमानायाः विद्यालयकायिकमेलायाः भागभागिनः भारतीयछात्राः सुरक्षिताः इति विदेशकार्यसचिवया सुषमास्वराजमहोदयया उक्तम्। ट्विट्टर् सामूहिकमाध्यमद्वारा एव वृत्तान्तोऽयं सूचितः। तुर्कीराष्ट्रे ट्राब्सण् देशे भवति कायिकमेला। भारतराष्ट्रात् १४८ छात्राः विद्यालयकायिकमेलायां भागभाक्त्वं स्वीकुर्वन्ति। एतैः साकं ३८ उद्योगस्थाः च सन्ति। सर्वे सुरक्षिताः इति अधिकारिणः सूचयन्ति। जूलै १८ दिनाङ्के मेलां समाप्य सङ्‌घः प्रतिनिवर्तयिष्यति।

डेविस् कप् - भारतस्य विजयः
  चण्डीगड् > डेविस् कप् टेन्नीस् परम्परायां द्वन्द्वविभागे दक्षिणकोरियायाः उपरि भारतस्य विजयः।भारताय लियाण्डर् पेस् रोहन्‌ बोप्पणा सख्यमेव विजयं प्रापयत्। तथा च परम्परायां भारतं ३-० इत्यनुपाते अग्रे भवति। परम्परायाः प्रथमदिने भारताय रामकुमार् रामनाथः साकेतमेयनेनिः च विजयिनौ आस्ताम्।

 राष्ट्रसुरक्षायै राज्यसहकरणम् अनिवार्यम्- प्रधानमन्त्री      नवदहली > राष्ट्रसुरक्षायै विविधानां राज्यानां सहकरणम् अनिवार्यम् इति प्रधानमन्त्रिणा नरेन्द्र मोदिना उक्तम्। राष्ट्रपतिभवने सञ्चालिते अन्तःराज्यसमितेः योगे प्रभाषयन् आसीत् सः। राष्ट्रस्य आभ्यन्तरसुरक्षायै विविधैः राज्यैः सम्पाद्यमानानां रहस्यान्वेषणवृत्तान्तानां परस्परं विनिमयः आवश्यकः इति मुख्यसचिवान् प्रधानमन्त्री सूचितवान्। तदर्थम् अन्वेषणसङघानाम् एकोपनं, अन्वेषणात्मककार्ये नूतनं समीपनं, साङ्केतिकविद्यायाः आर्जनं, अङ्गबलवर्धनं, कार्यशेषिवर्धनम् इत्यादिषु कार्येषु नैरन्तर्यश्रद्धा आवश्यकी - प्रधानमन्त्रिणा सूचितम्। राष्ट्रस्य सर्वे मुख्यसचिवाः समित्याम् अङ्गाः भवन्ति।

औषधपरिशोधनायै सप्ताङ्गसमितिः
तिरुवनन्तपुरम् > केरलेषु आरोग्यमण्डले परिवर्तनैः सह सर्वकारः। स्वास्थ्यमण्डले स्वकार्यातुरालयानाम् अनियन्त्रितविनिमयं प्रतिरोद्धुं सर्वकारस्य निर्णयः। राज्ये नूतनतया निर्मीयमानानाम् औषधानां तथा आविष्क्रियमाणानां चिकित्सासम्प्रदायानां च कार्यक्षमतां परिशोधयितुं सप्ताङ्गसमितिः सर्वकारेण रूपीकृता। समित्यां राज्यस्य विदग्धाः चिकित्सकाः अन्तर्भूताः इति सूचना अस्ति। आरोग्यमण्डले विविधैः स्वकार्यातुरालयैः स्वेच्छया एव चिकित्सासम्प्रदायाःऔषधाः च आविष्क्रियन्ते, तदर्थं तैः स्वीक्रियमाणं धनमपि अत्यधिकमेव। सर्वकारस्य नूतनः निर्णयः सामान्यजनेभ्यः आश्वासदायकः भवति।