OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 22, 2016

राजधान्यामपि अभिभाषकाणां राक्षसीया चेष्टा।
अनन्तपुरी> ह्यः केरळस्य उच्चन्यायालयाङ्कणे प्रदर्शितानाम् अतिक्रमाणाम् अनुसन्धानेन राजधानीनगरे वञ्चियूर् जिल्लान्यालयपरिसरे अपि माध्यमप्रवर्तकान् प्रति अभिभाषकराक्षसानां किरातवृत्तिः।
     गतदिने कोच्चीनगरे काञ्चन महिलां प्रति अक्रमं कृतवन्तं सर्वकाराभिभाषकं धनेष् मात्यू माञ्ञूरान् नामकम् अधिकृत्य वार्ताद्वारा प्रकाशनं कृतान् माध्यमप्रवर्तकान् विरुद्ध्य एव अक्रमस्य आरम्भः। न्यायवादिनां संबन्धितया अप्रियवार्ताप्रसारणेन क्रुध्यमाना संघटना न्यायालयबहिष्करणाय आह्वानं कृतवती आसीत्। तद्वार्तामुद्घोषयितुं सन्नद्धान् प्रसारणमाध्यमान् प्रति प्रकोपनं विना अक्रमं कृतवन्तः आसन्।
   वञ्चियूर् न्यायालये माध्यमप्रकोष्ठः  शौचालयमिति फलकं स्थापयित्वा बन्धितः आसीत्। पाषाण लोष्ट मदिराचषक दण्डदीपखण्डैः माध्यमप्रवर्तकान् प्रति क्षेपितवन्तः। अनेके व्रणिताः । होराभ्यः यावत् न्यायालयपरिसरः संघर्षपूरितः आसीत्

मासत्रयाभ्यन्तरे अतिवेगजलमार्गः याथार्थ्यं प्राप्स्यति ।
  कोच्ची > केरलराज्यस्य प्रधानानि त्रीणि नगराणि संयुज्य अतिवेगजलमार्गः प्रवर्तनक्षमः भविष्यति। मासत्रयाभ्यन्तरे सेवनमारभ्यतेति अधिकारिभिः सूचितम्।कोष़िक्कोट्, कोच्ची, तिरुवनन्तपुरम् इत्यादीनि नगराणि संयुज्यैव सेवनं भविष्यति ।प्रथमं कोच्ची -कोष़िक्कोट् यात्रा एव आरभ्यते। अनेन राष्ट्रस्य प्रथमम् अतिवेगजलगतागत सेवनम् इति ख्याति अस्याः पद्धतेः लप्स्यते।

 होकी इतिहासः मुहम्मद् षहीद् दिवङ्गतः।
  नवदहली > भारतीयहोकीसङ्‌घस्य मान्त्रिकः इति विख्यातः मुहम्मद् षहीद् (५६ वयः) दिवङ्गतः। मूत्राशयसम्बन्धरोगेण पीडित: सः गुड्गाव् मध्ये आतुरालये चिकित्सायामासीत्। उत्तरप्रदेशस्य वाराणसी एव जन्मदेशः। स्व एकोनविंशतितमे वयसि विश्वचषकहोकीमेलया एव तस्य रङ्‌गप्रवेशः आसीत्। कालक्रमेण भारतसङ्‌घस्य नायकः अपि अभवत्। असाधारणवेगेन , ड्रिब्लिङ् सामर्थ्येन च श्रद्धेय: आसीत् मुहम्मद् षहीद्।