OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 22, 2016

गतकालः अत्यधिकतापयुक्तः।

 वाषिङ्‌टण् > गत जूण् मासः १३७ वर्षाणां चरित्रे अत्यधिकः तापयुक्तः मासः आसीत् इति अमेरिकाया: कालभेदनिरीक्षणसङ्घः। आगोलतापनम् अनुस्यूततया अभिमुखीकृतेषु मासेषु चतुर्दशतमः मासः अपि जूण् आसीत् इत्यपि नाषणल् ओष्यानिक् अट्मोस्फेरिक् अड्मिनिस्ट्रेषनेन (एन् ओ ऐ ए ) प्रस्तावितम्। १८८० तः रेखीयमाने आगोलतापनानुपाते अतिशक्तः आसीत् जूण्मास: इति एन् ओ ऐ ए असूचयत् । २०तम शताब्दस्य अनुपातापेक्षया २०१६ जूण्मासे ताप: ०.९०॰c अधिकः रेखीकृतः वर्तते।
 
 कोटीश्वरपुत्रः कोच्चीमध्ये भोजनालयकर्मकरः।
  कोच्ची > प्रयत्नस्य प्राधान्यं तथा जीवितानुभवान् च सम्पादयितुं कोटीश्वरपुत्रः कोच्चीनगरे भोजनालयकर्मकरस्य उद्योगं कुर्वन् अस्ति। कोच्चीनगरे मध्यवर्गश्रेणीयुक्ते एकस्मिन् भोजनालये एव दिवसवेतनकर्मकरस्य उद्योगे कोटीश्वरपुत्रस्य प्रवेशः। सः गुजरातराज्ये ६००० कोटि रूप्यकाणां सम्पाद्यमनुभवतः गुजरातराज्यस्थस्य साव्जी धोलाकिया इति नामकस्य रत्नव्यापारे: कनिष्ठः पुत्रः इति सूचना। द्रव्य इति नामक: सः एम् बि ए बिरुदधारी च भवति। आडम्बरपूर्णजीविताय विद्यार्थिनः अपि अधार्मिकप्रवर्तनेषु भागभाक्त्वं स्वीकुर्वति अस्मिन् काले अयं युवक: मातृकाजीवनेन श्रद्धेयः अस्ति।

'कबाली ' प्रदर्शनम् आरब्धम् ; उत्सवलहर्यां तमिळीयाः!
चेन्नै > रजनीकान्तस्य नूतनं महदर्थव्ययीकृतं चलच्चित्रं कबाली अद्य प्रदर्शनम् आरब्धम्। लोके सर्वत्र प्रदर्शनं विद्यते।
    केवलं तमिळ् नाटुराज्ये द्विसहस्राधिकेषु रजतफलकेषु अस्य रजनीचित्रस्य प्रदर्शनं प्रचलति। केरळे तु त्रिशतं चित्रशालासु प्रदर्शनमारब्धम्।
  अद्य प्रभाते चतुर्वादने एव तमिळदेशे प्रथमं प्रदर्शनम्। केरळे तु ५.३० वादने। यू ए ई, ओमान्, खत्तर्, बह्रिन् कुवैट् इत्यादिषु   यवनराष्ट्रेषु ह्यः एव प्रदर्शनं सम्पन्नम्।

  बीहार् मुख्यसचिवस्य मण्डले पाक् पताकारोहणम् ।
  पट्ना > बीहार् मुख्यसचिवस्य नितीष्कुमारस्य मण्डले नलन्दायां करोटिमोहल्ले प्रदेशे एकस्य भवनस्योपरि एव पाकिस्तानस्य पताकायाः आरोहणम् अभवत्। ह्यः प्रभाते षड्वादने प्रदेशस्य आरक्षकालयं पताकारोहणमधिकृत्य दूरवाणीसन्देशः आगतः। सन्देशदायकमधिकृत्य सूचना कापि नास्ति।आरक्षकाः आगत्‍य पताकायाः दूरीकरणम् अकुर्वन् । विषयस्योपरि समग्रान्वेषणाय सर्वकारेण निर्देश: दत्त:।