OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 26, 2016

अहंकारं त्यक्त्वा पत्रकारिता विनम्रतां धारयेत् – राममाधवः
पुणे > पत्रकारिता कदाचित् काले व्रतम् आसीत् अपि अधुना तया व्यावसायिकतामपि लङ्घितम् अस्ति। अधुना पत्रकारिता अहंकारपरिप्लुता वर्तते। तस्मात् पत्रकाराः विनम्रतां धारयितुम्। यदि पत्रकारिता संवेदशीला भवति तर्हि एव सा सफला भविष्यति, इति 'भारतीय जनता पक्ष'स्य राष्ट्रिय सरचिटणीसः अपि प्रख्यातः विचारकः राम माधव प्रतिपादितम्।

विश्व संवाद केन्द्र, पश्चिम महाराष्ट्र प्रान्त अपि च डेक्कन एज्युकेशन सोसायटी संस्थाया प्रतिवार्षिकाः 'देवर्षी नारद पत्रकारिता पुरस्काराः' राममाधवमहोदयेन शनिवासरे पुणेनगरे प्रदत्ताः। कार्यक्रमेsस्मिन् भाषमानः सः एतत् विचाराः प्रकटितवान्। सन्दर्भेsस्मिन् ज्येष्ठपत्रकार पुरस्कारेन दिलीप धारूरकरवर्यः, युवापत्रकार पुरस्कारेण मुस्तफा अतारवर्यः, छायाचित्रकारपुरस्कारेन गणेश कोरेवर्यः तथा च प्रथम 'सोशल मीडिया' पुरस्कारेन शेफाली वैद्यमहोदया च सन्मानिता।

 सन्दर्भेsस्मिन् राममाधवमहोदयः अवदत्, “पत्रकारः प्रतिपुरस्कारम् उत्तरदायित्वं मन्येत्। स्वतंत्रता संघर्षकालेsस्मिन् पत्रकारिता एकं व्रतमासीत्। प्रत्येकः नेतारः साधना-रुपेण पत्रकारिता प्रयुक्ता। अपि अधुना पत्रकारिता एकः उद्योगः अस्ति। पत्रकारितायां तत्कालीन व्रतभावस्य पुनरागमनम् आवश्यकम्।”

तेन कथितम्, यत् साम्प्रतम् पत्रकारिता आंदोलकपत्रकारिता वर्तते। ”पत्रकारिता अहंकारपरिप्लुता वर्तते। अधुना समाजः बुद्धिमान् अस्ति। तस्मात् अधुना जनाः विनम्रतां अपेक्ष्यन्ते। अभिव्यक्तीस्वतंत्रता महती खलु, अपि जीवनाधिकारः उच्चतमः अस्ति।” तेन एतदपि सूचितम् यत् विनम्रता धृत्वा माध्यमानि देशविकासतत्परानि भवेयुः, न चेत् विकासविरोधकाः चेत् जनाः न सहिष्यन्ति।
कश्मीरस्य जनता अस्माकमेव
कश्मीरविषये सः अवदत् यत् अस्मानम् कृते कश्मीरस्य न केवलं भूमि अपि तत्रस्थ जनाः अपि स्वीकरितुम् आवश्यकमस्ति। कश्मीरप्रान्तः भारतदेशस्य अभिन्नभागः अस्ति अपि च एतद्विषये का अपि चर्चा न संभाव्यते। तत्रस्था केचित् जनाः पाकिस्तानदेशप्रियाः सन्ति अपि ते अल्पसंख्यका सन्ति। तत्रस्थ राष्ट्रवादीबलं दृढीकरणार्थं अस्माभिः कश्मीरजनहृदयानि विजेयितव्य।