OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, March 22, 2021

 हिमाचलसेनाप्रवेशार्थम् आगतानां युवकानां एन्.एच्. इत्यस्मिन् यानचक्रम् अवरुद्धम्, ते घण्टात्मकं विवादाक्रोशनं कृतवन्तः । 

वार्ताहरः श्रीवत्स देशराज शर्मा मण्डी हिमाचलप्रदेश:।

  हिमाचलप्रदेशस्य ऊनाजनपदस्थे इन्दिराक्रीडाङ्गणे शनिवासरे सेनाप्रवेशपरीक्षाद्वारतो निष्काशनकारणतो भृशं क्षोभं प्रदर्शितवन्तः। धर्मशाला-दिल्ली-राजमार्गे पञ्चदशनिमेषं यावत् यानानि अवरुद्धानि कृतवन्तः। तद्यानानि पुनः प्रवर्तनाय आरक्षकैः बहुकष्टम् अनुभूतम्। अस्मिन् सन्दर्भे युवकानाम् आरक्षकाणां मध्ये सामान्यः सङ्घर्षोऽपि सङ्घटितः। यानानां प्रवर्तनानन्तरमपि क्षुब्धयुवकाः एन्.एच्. इत्यत्रैव घण्टां यावत् स्थितवन्तः। राजमार्गस्य उभयत्रापि एकिमिपर्यन्तं यानानां पङ्क्तिः अदृश्यत। युवकानाम् आरोपो यत् तेषां प्रत्येकम् युवदलत एक एव छात्रः सैनिकपदव्यर्थं चितः अभवदिति । प्रत्येकं शाखादले प्रायः चतुर्शतं तरुणाः धावनपरीक्षायां भागम् ऊढवन्तः आसन्। अपरत्र, सेनानिदेशकः कर्नल-संजीवकुमारो वदन् आसीत् यत् तरुणाः स्वदलं निर्माय सहैव धावमानाः आसन् चेदपि तत्पूर्णं कर्तुं न शक्तवन्त इति।