OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, March 11, 2021

 कोविडं प्रति नासिक्यवाक्सिनस्य परीक्षणम् आरब्धम्। 

   हैदराबादः> भारत बयोटेक् संस्थया पोषितस्य नासिकाद्वारा दीयमानस्य कोविड्वाक्सिनस्य  प्रारम्भप्रयोगपरीक्षणं [Clinical Experiment] हैदराबादे समारब्धम्। ह्यः दश सन्नद्धसेवकाः वाक्सिनं स्वीकृतवन्तः। 

  पट्न, चेन्नै, नागपुरम् इत्येतेषु नगरेष्वपि नासिक्यवाक्सिनस्य परीक्षणम् अचिरादारभ्यते। प्रथमतया आराष्ट्रं १७५ जनेषु वाक्सिनमिदं परीक्ष्यते। 'वाषिङ्टण् यूणिवेर्सिटि स्कूल् ओफ् मेडिसिन्' नामकसंस्थया सहयुज्य एव 'भारतबयोट्क्' इत्यनेन नासिक्यवाक्सिनं परिपोषितम्। सूचीप्रयोगं विना नासिकाद्वारा वाक्सिनमात्राः स्वीकर्तुं शक्यते इति विशेषता।