OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, February 19, 2024

 अर्बुदरोगप्रतिरोधाय उपकारकस्य वाक्सिनस्य आविष्कारसमीपं प्राप्ताः इति रष्यस्य राष्ट्रपतिः पुतिनः।

 मोस्को> स्वास्थ्यमण्डले रष्यस्य राष्ट्रपतिना पुतिनेन सुप्रधानख्यापनं कृतम्। रष्यस्य वैज्ञानिकाः अर्बुदप्रतिरोधकवाक्सिनस्य आविष्कारसमीपं प्राप्ताः इति तेन ख्यापितः। अर्बुदवाक्सिनः अथवा रोगप्रतिरोधाय सक्षमं आधुनिकभेषजम् इति वक्तुं योग्यस्य आविष्कारसमीपं वयं प्राप्तवन्तः इति पुतिनेन उक्तम्। विलम्बं विना एतस्य व्यक्तिगतोपयोगाय सज्जो भविष्यति इति प्रत्याश्यासे इति पुतिनेन निगदितम्। नूतनप्रौद्योगिकविद्यासम्बन्धिगणानां मध्ये भाषमाणः आसीत् अयम्।