OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, February 27, 2024

 चालकं विना रेल् यानं ८४ कि मी दूरम् अधावत्! 

प्रवेगः १०० कि मी प्रतिहोरम्। 

जम्मू> कृत्यपरिवर्तनाय चालके बहिर्गते अग्रे चलितं पण्ययानं ८४ कि मी दूरपर्यन्तं स्वयमधावत्। जम्मूमध्ये कठ्व रेल् निस्थानात् गतदिने  प्रभाते ७. २५ वादने स्वयं प्रस्थितं यानं ९ वादने पञ्चाबस्थे होषियारपुरं प्राप्तम्, कामपि दुर्घटनां विना!

  कठ्व रेल् निस्थाने अवरोहणस्थाने आसीत् पण्ययानस्य स्थितिः, तथा  विच्छेदव्यवस्थादोषश्च यानधावनस्य कारणमिति मन्यते। क्रमेण अतिवेगं प्राप्तं यानं १०० कि मी प्रवेगेण धावितम्। किन्तु मार्गे सर्वत्र सुरक्षाजागरितप्रवर्तनानि आयोजितानि इत्यतः यत्र कुत्रापि दुर्घटनाः न जाताः इति आश्वासप्रदं वर्तते। 

  यदा पञ्चाबस्य इन्चि बसि निस्थानस्य आरोहणस्थानं  प्राप्तं तदा यानवेगः न्यूनीभूतः।