OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, February 11, 2024

 केरल-शास्त्रसाहित्यपरिषत् केरलराज्यस्थरीय-सम्मेलनं कोट्टयं नगरे भविष्यति।

    कोट्टयम्> केरल-शास्त्रसाहित्यपरिषदस्य केरलराज्यस्थरीय-सम्मेलनं कोट्टयं नगरे भविष्यति। फेब्रुवरिमासस्य २४,२५ दिनाङ्के सि एम् एस् कलाशालायां भविष्यति मेलनम्। वैज्ञानिकसाहित्य संवादाः मेलने आयोक्ष्यन्ते। मेलनात् पूर्वं राज्यस्य विविधभागेषु मण्डलस्तरीयमेलनानि प्रचलन्तः सन्ति। 

  पाला मण्डलस्य उपवेशनं मुत्तोलि कणियक्काड् अङ्गणवाटिमध्ये समभवत्। द्वितीयवार्ड् अङ्गः जिजि जेक्कबः मेलनस्य अध्यक्षा आसीत्। अङ्गणवाट्याः शिशुभ्यः पठनोपकरणानि वितीर्णानि। काञ्ञिरप्पल्ली M E S कलाशालायाः सहायाध्यापक: सुमेष् ए एस् "कुरुन्निल" इति पुस्तकानां समहारस्य वितरणम् अकरोत्।CPM प्रादेशिकसचिवः प्रदीप् कुमारः, मण्डलस्य सचिवः सतीष् कुमार् एन् एस्, जयकुमार् ए इत्यादयः विविधविषयेषु भाषणम् अकुर्वन्।