OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, February 24, 2024

 नूतनाः दण्डनीतिनियमाः जूलै मासतः प्रबलाः भविष्यन्ति।

    नवदिली> इदानीन्तनान् दण्डनीतिनियमान् परिवर्त्य नूतननियमाः २०२४ जूलै मासस्य प्रथमदिनाङ्कात् प्रबलाः भविष्यन्ति। भारतीय-न्यायसंहिता (BNS) भारतीय-नागरिकसुरक्षा संहिता (BNSS) भारतीय-साक्ष्य (BS) इत्येते नियमाः एव प्रबलाः भविष्यन्ति। १८६० तमे वर्षे निर्मितस्य भारतदण्डनीति नियमः (ऐ पि सि) १८९८ तमस्य अपराधीप्रक्रमनियमः (सि आर् पि सि) २८७२ तमस्य भारतप्रमाणनियमः इत्येतेषु स्थानेषु एव नूतननियमाः प्रबलतया आगमिष्यन्ति।