OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 12, 2024

 तन्तै पेरियार् स्मारकम् अद्य उद्घाट्यते।

तन्तै पेरियार् वर्यः। 

 

वैक्कम्> केरले वैक्कं स्थाने तमिलनाट् सर्वकारस्य स्वामित्वे वर्तमानस्य नूतनीकृतस्य तन्तै पेरियार् (ई वी रामस्वामि नाय्क्कर्)  स्मारकस्य पेरियार् ग्रन्थशालायाः च  उद्घाटनं गुरुवासरे तमिलनाट् मुख्यमन्त्री एम् के स्टालिनः निर्वक्ष्यति। तदनुबन्ध्य वैक्कं सत्यग्रहान्दोलने तन्तै पेरियार् वर्यस्य भागभागित्वस्य शताब्द्याचरणस्य समाप्तिसम्मेलनस्य उद्घाटनमपि अद्य सम्पद्यते। प्रभाते दशवादने आयोज्यमाने सम्मेलनेSस्मिन् केरलमुख्यमन्त्री पिणरायि विजयः अध्यक्षपदमलङ्करोति। १९२४ तमे वर्षे वैक्कं मन्दिरस्य समीपे उपसंवत्सरद्वयात्मकं  संवृत्ते अस्पृश्यतोच्चाटनान्दोलने नेतृत्वपरं भागभागित्वं कृतवान् तमिलनाट् प्रदेशीयः सामाजिकपरिष्कर्ता आसीत् तन्तै पेरियार् इति विशेष्यमानः ई वी रामस्वामि नाय्क्कर् महाभागः।