OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 22, 2024

 संस्कृतम् आभारतं दैनन्दिनव्यवहारभाषा भवितव्यम् - डो. एम् सि दिलीपकुमारः।

 केरले संस्कृतप्रबोधनवर्गशिबिरं समारब्धम्।

केरले सम्पद्यमानं संस्कृतप्रबोधनवर्गं भूतपूर्वः कुलपतिः एम् सि दिलीप कुमारः उद्घाटनं करोति। 
    कोच्ची> संस्कृतभारत्याः केरलप्रान्तीयस्य विश्वसंस्कृतप्रतिष्ठानस्य नेतृत्वे साप्ताहिकः आवासीय संस्कृतप्रबोधनवर्गः समारब्धः। पेरुम्पावूर् नगरस्थे अमृतविद्यालये आयोज्यमानस्य प्रबोधनवर्गस्य उद्घाटनं  श्रीशङ्कराचार्य -संस्कृत- विश्वविद्यालयस्य भूतपूर्वः कुलपतिः डाः एम् सि दिलीपकुमारः अकरोत्। 

   दैनंदिनव्यवहारेणैव संस्कृतभाषायाः अमरभाषा इति पदं सार्थक्यं भवेदिति एम् सि दिलीपकुमारः तस्योद्घाटनभाषणे अवदत्। "इतरभाषासु एकस्याशयस्य प्रकाशनार्थं चत्वारि पञ्च वा वाक्यानि उपयुज्यन्ते। किन्तु तदेवार्थप्रकाशनाय एकमेव  संस्कृतवाक्यं पर्याप्तं भवति। सङ्गणकयन्त्रेषु अत्यन्तमुपयुज्यमाना भाषा इति वैशिष्ट्यं सार्थकमभविष्यत्तर्हि एषा नित्यव्यावहारिकी भवेत्।" सः उक्तवान्। 

  उद्घाटनसभायां विश्वसंस्कृतप्रतिष्ठानस्य केरलप्रान्ताध्यक्षः डा. पि के शङ्करनारायणः अध्यक्षपदमलङ्कृतवान्। संस्कृतभारत्याः अखिलभारतीय-प्रशिक्षणप्रमुखेन श्रीरामेण प्रास्ताविकभाषणं कृतम्। अखिल भारतीयसहकार्यदर्शी डा. पि नन्दकुमारः मुख्यभाषणमकरोत्।पेरुम्पावूर् श्रीस्वामिवैद्यगुरुकुलस्य वैद्यः डो.अभिलाष् वि आर् नाथः, दक्षिणक्षेत्रविद्वत्परिषत्प्रमुखः डा. ई एन् ईश्वरः च  आशंसामर्पितवान्तौ। शिबिरस्य मुख्यसंयोजकः पि के राजेष् कुमारः स्वागतं , प्रतिष्ठानस्य  एरणाकुलं विभागसंयोजकः विवेक विजयः कृतज्ञतां च व्याजहार।