OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, December 24, 2024

 भारत-कुवैटयोः  सौहार्दं शक्तं भविष्यति। 

चत्वारि सन्धिपत्राणि हस्ताक्षरीकृतानि। 

नरेन्द्रमोदिने कुवैटे लब्धं स्वीकरणम्। 

कुवैट् सिटी> भारत - कुवैट् राष्ट्रयोर्मध्ये सौहार्दं सबलं कर्तुं प्रधानमन्त्री नरेन्द्रमोदी कुवैट् राष्ट्रस्य अमीर् शैख् मेषाल् अल् अहम्मद् अल् जाबिर् अल् सहाब् इत्यनेन सह मेलनं कृतवान्। रविवासरे  सम्पन्ने मेलने राष्ट्ररक्षा, सांस्कृतिकविनिमयः, कायिकक्षेत्रे सहयोगः, व्यापारविकासः इत्येतेषां विषयेषु सन्धिपत्राणि हस्ताक्षरीकृतानि।

  अमीर् वर्यस्य आमन्त्रणानुसारं शनिवासरे आसीत् मोदिनः कुवैट् प्राप्तिः। ४३ संवत्सराणामनन्तरमेव कस्यचन भारतप्रधानमन्त्रिणः कुवैट् सन्दर्शनम्। १९८१ तमे वर्षे इन्दिरागान्धिनः सन्दर्शनमासीत् इतःपूर्वम् सम्पन्नम्।