OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 4, 2024

 चीनं प्रति सौहृदे उत्कर्षो जातः - भारतविदेशकार्यमन्त्री। 

नवदिल्ली> भारतचीनयोः सीमाविवादाः समीपकालसैनिकनयतन्त्रचर्चाभिः परिहृताः इति भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः। उभयोरपि राष्ट्रयोः परस्परसंबन्धे अपि उत्कर्षः जातः इति तेनोक्तम्। लोकसभायां सविशेषप्रस्तुतिं  क्रियमाणः आसीत् सः।

  २०२० तमे 'गाल्वन्' संघर्षस्य हेतुः चीनेन कृतं प्रकोपनमासीत्। चीनस्य आक्रमणं प्रतिरोद्धुं भारतसेनया कृतः उद्यमः प्रशंसामर्हति। चीनेन सह सीमाविवादेषु शाश्वतपरिहाराय भारतं प्रतिज्ञाबद्धमिति जयशङ्करेण प्रस्तुतम्।