OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, December 6, 2024

 महाराष्ट्रे फड्नविसः प्रशासनम् अधिकारं प्राप्तम्। 

देवेन्द्र फड्नविसः शपथवाचनं करोति।

मुम्बई> महाराष्ट्रे मुख्यमन्त्रिरूपेण देवेन्द्र फड्नविसः शपथवाचनं कृतवान्। एकनाथ षिन्डे , अजित पवारश्च उपमुख्यमन्त्रिरूपेण च अधिकारं स्वीकृतवन्तौ। ह्यः सायं आसाद् क्रीडाङ्कणे समायोजिते प्रौढगम्भीरे कार्यक्रमे राज्यपालस्य सि पि राधाकृष्णस्य पुरतः एव सर्वे शपथवाचनमकुर्वन्। 

  प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित शाहः, इतरे केन्द्रमन्त्रिणः, राज्यमुख्यमन्त्रिणः, मुकेष् अम्बानी, नोयल् टाटा इत्यादयः व्यवसायप्रमुखाः, सच्चिन् टेण्टुल्करः, षारूखानः इत्यादयः विशिष्टपुरुषाश्च कार्यक्रमेSस्मिन् सन्निहिताः आसन्।