OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 11, 2024

 संस्कृतभारत्याः प्रबोधनवर्गः डिसं. २१तः आरभते। 


 कोच्ची> संस्कृतभारती इति संस्कृतभाषासंवर्धकसंघटनस्य केरलविभागस्य नेतृत्वे प्रतिसंवत्सरमायोज्यमानः संस्कृतप्रबोधनवर्गः डिसम्बरमासस्य २१ तमदिनाङ्कादारभ्य २८ तमदिनाङ्कपर्यन्तं एरणाकुलं जनपदस्थे पेरुम्पावूर् अमृत विद्यालये सम्पत्स्यते। २५० युवजनेभ्यः परिशीलनं दास्यते। केरलं, तमिलनाट्, आन्ध्रप्रदेशः,कर्णाटकम् इत्येतेभ्यः राज्येभ्यः युवछात्राः प्रबोधनवर्गशिबिरे भागं करिष्यन्तीति संस्कृतभारत्याः अखिलभारत माध्यमसंयोजकः डो सच्चिन् कठालेवर्यः निगदितवान्। 

  ये परिशीलनं सम्प्रापयिष्यन्ति ते १०१ संख्याकानि अमौपचारिकसंस्कृतशिक्षाकेन्द्राणि प्रचालयिष्यन्ति। पत्रकारसम्मेलने संस्कृतभारत्याः राज्याध्यक्षः डो पि के शङ्करनारायणः , दक्षिणक्षेत्रीयसंघटनकार्यदर्शी सुवीशः, जनपदसंयोजिका कीर्तीप्रकाशः, ज्योतिष् मयी इत्येते भागं गृहीतवन्तः।