OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 9, 2024

 सिरियाराष्ट्रं विमतैः गृहीतम्। 

राष्ट्रपतिः बाषर् अल् असदः रष्यां पलायितवान्।

सिरियानिग्रहणे आह्लादं प्रकटयन्तः विमताः। 

दमास्कसः> सिरियाराष्ट्रस्य राजधानी दमास्कसः स्वीयैः निगृहीतः इति सर्वकारविरुद्धविमतसंघेन हयात् तहरीर् अल् षाम् [एछ् टि एस्] इत्यनेन संघटनेन निगदितम्। नवम्बरमासस्य २७ तमे दिनाङ्के आरब्धस्य प्रशासनविरुद्धाक्रमणस्य ११ तमे दिने आसीदिदं प्रख्यापनम्। 

  राष्ट्रं परित्यक्तवान् राष्ट्रपतिः बाषर् अल् असदः सपरिवारः मोस्को प्राप्तवानिति  रूसीयवृत्तान्तहरैः प्रस्तुतम्। रष्यया असदाय अभयः दत्त इति सूच्यते। 

  असदः प्रशासनात् प्रतिलोमितः इति रविवासरे औद्योगिकदूरदर्शनमाध्यमेनैव विमतैः उद्घोषितम्। २० संवत्सरात्मकं असदशासनं समाप्तमिति ज्ञातवन्तः जनाः वीथीमागत्य आह्लादं प्रकटितवन्तः।