OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 12, 2024

 विश्वचतुरङ्गक्रीडा 

पुनरपि समस्थितिः, अन्त्यस्पर्धा अद्य।

डिङ् लिरनः (वामे), डि गुकेशश्च। 

 

सिंगपुरं> विश्वचतुरङ्गवीरतास्पर्धापरम्परायाः अन्तिमचक्रस्य पूर्वान्त्यप्रतिद्वन्द्वः अपि (१३तमः) समस्थितिं प्राप्तः।  अनेन भारतस्य डि गुकेशः चीनस्य डिङ् लिरनः यः वर्तमानीयवीरः च ६.५ अङ्कान् प्राप्तवन्तौ। अन्तिमः श्रेणीकृतप्रतिद्वन्द्वः अद्य सम्पत्स्यते। 

  अद्यतनक्रीडा गुकेशस्य निर्णायका भवति। १४ क्रीडायुक्ते श्रेणीकृतप्रतिद्वन्द्वे यः प्रथमं ७.५ अङ्कान् प्राप्नोति सः विश्ववीरः भविष्यति। यदि अन्त्यस्पर्धा अपि समस्थितिं प्राप्स्यति शुक्रवासरे समयनियन्त्रणसहितैः रापिड् ब्लीट्स् नामकैः प्रतिद्वन्द्वैः विजयिनिर्णयं करिष्यति। समयनियन्त्रणक्रीडासु डिङः कुशल इति अभिज्ञैः सूच्यते।