OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 30, 2024

 दक्षिणकोरियायां विमानदुर्घटना - १७९ जनाः मृत्युमुपगताः। 

द्वौ अद्भुतेन रक्षितौ। 

विमानप्रज्वलस्य दृश्यम्। 

सोल्> दक्षिणकोरियायां मूवान् अन्ताराष्ट्रविमाननिलये अवतरणवेलायां विमानपथात् स्रंसितं विमानं सुरक्षाभित्तिमभिघात्य प्रज्वाल्य १७५ यात्रिकाः चत्वारः विमानसेवकाश्च  मृत्युमुपगताः। द्वौ विमानसेवकौ अद्भुतरीत्या रक्षां प्राप्तवन्तौ। 'जेजु एयर्' संस्थायाः बोयिंग् ७३७-८०० इति विमानमेव दुर्घटितम्। 

  ताय्लान्ट् राजधान्यां बाङ्कोके सुवर्णभूमि  अन्ताराष्ट्रियविमाननिलयात् मूवानं प्रति प्रस्थिते विमाने द्वौ अपहाय सर्वे कोरियाजनाः आसन्। यात्रासमये विमानं प्रति कश्चन पक्षी अभिघट्टितः इति कस्यचन यात्रिकस्य शब्दसन्देशः बहिरागतः इति 'न्यूस्- १' इति वृत्तान्तमाध्यमेन सूच्यते। विमानस्य पृष्ठस्थाने उपविष्टौ द्वावेव रक्षां प्राप्तौ।