OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 11, 2024

 अलहबाद् उच्चन्यायालयस्य न्यायाधिपेन कृते विद्वेषप्रभाषणे व्यापकप्रतिषेधः।

उच्चन्यायालयं प्रति सर्वोच्चन्यायालयेन वस्तुताविवरणं मार्गितम्। 

नवदिल्ली> विश्वहिन्दुपरिषदः कार्यक्रमे भागं गृह्णन् विद्वेषप्रभाषणं कृतवन्तं अलहबाद् उच्चन्यायालयस्य न्यायाधिपं शेखर कुंमारयादवं विरुध्य व्यापकः प्रतिषेधः। घटनायां स्वमेधया व्यवधृतवान् सर्वोच्चन्यायालयः अलहबाद् उच्चन्यायालयात् वस्तुताविवरणं मार्गितवान्। 

  एक नागरिक नियममधिकृत्य कृते प्रभाषणे आसीत् विवादपरामर्शः जातः। इस्लामधार्मिकान् विरुध्य अधिक्षेपा‌ः न्यायाधिपात् अजायन्त इति सूच्यते। 

  राष्ट्रस्य शासनसंविधानेन निर्दिश्यमानायाः  नयसंहितायाः विरुद्ध एव शेखर कुमार यादवस्य परामर्शाः इति राष्ट्रपतिं प्रति समर्पिते आवेदने मुस्लिमलीगदलस्य सदस्याः सूचितवन्तः।