OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 21, 2024

 साकिर् हुसैन् वर्याय यू एस् मध्ये अन्त्यनिद्रा। 


सान्फ्रन्सिस्को> सोमवासरे दिवंगतः विश्वविख्यातः ऊर्ध्वकवादकः उस्ताद् साकिर् हुसैन् वर्यः अमेरिकायां अन्त्यनिद्रां प्राप। गुरुवासरे सान्फ्रन्सिस्कोस्थे फेण्हुडे तस्य अन्त्येष्टिकर्माणि सम्पन्नानि। शतशः आराधकाः कर्मण्यस्मिन् भागं गृहीतवन्तः। उस्तादवर्यस्य आदररूपेण तालकुशलस्य  शिवमणिवर्यस्य नेतृत्वे सङ्गीतज्ञाः सङ्गीतार्चनां कृतवन्तः। 

  श्वासकोशाधिष्ठितरोगेण भारतीयसमयानुसारं सोमवासरे उषसि सान्फ्रन्सिस्कोमध्ये आसीत् उस्तादवर्यस्य अन्त्यम्। ७३ वयस्कः आसीत्। १९५१ तमे वर्षे विश्रुतोर्ध्वकवादकः उस्ताद् अल्ला राख, बवी बीगम् इत्यनयोः पुत्ररूपेण मुम्बय्यां माहिमे आसीत् साकिर् हुसैनस्य जननम्।