OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, December 3, 2024

 राजवीथ्यां  बस् यान-कार् यानसंघट्टनं - पञ्च वैद्यकछात्राः मृताः। 

दुर्घटनायां पूर्णतया भग्नं कार् यानम्। 

आलप्पुष़ा> केरले आलप्पुष़ा जनपदे नगरसमीपं राजवीथ्यां  के एस् आर् टि सि बस् यानं प्रति ११ वैद्यकीयछात्राः सञ्चरतः कार् यानस्य संघट्टनेन ५ वैद्यकीयछात्राः मृताः; अन्ये तीव्रेण आहताः।   वैद्यककलालयस्य आतुरालये परिचर्यायां वर्तमानेषु आहतेषु एकस्य अवस्था गुरुतरा वर्तते।

  सोमवासरस्य रात्रौ अतिवृष्टिसमये आसीत् दुर्घटना।  चलच्चित्रदर्शनाय प्रस्थिताः  ११ वैद्यकीयछात्रैः सञ्चरत् यानं नियन्त्रणं विनश्य अभिमुखमागच्छत् बस् यानं घट्टितमासीत्।

  सर्वे आलप्पुष़ा वैद्यककलाशालायां प्रथमवर्षछात्राः भवन्ति। आयुष् षाजी [आलप्पुष़ा], श्रीदीप वत्सन् [पालक्काट्], देवानन्दः [मलप्पुरं], मुहम्मद अब्दुल् जब्बार् [कण्णूर्], मुहम्मद इब्राहिमः [लक्षद्वीपः] इत्येते अकालमृत्युं प्राप्तवन्तः सुहृदः।