OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 26, 2024

 एम् टि वर्यस्य वियोगे प्रधानमन्त्रिणः राष्ट्रपतेश्च अनुशोचः। 

सहस्राणाम् अन्त्याञ्जलिः ; अन्येष्टिक्रियाः पञ्च वादने। 

कोष़िक्कोट्> ह्यः रात्रौ दिवंगतस्य एम् टि वासुदेवन् नायर् वर्यस्य देहवियोगे केरलं दुःसन्तप्तहृदयेन अन्त्योपचारान् करोति। कोष़िक्कोट् कोट्टारं मार्गस्थं सितारा नामकं भवनं प्रति  सहस्रशः जनाः प्रवहन्ति। 

  प्रधानमन्त्री नरेन्द्रमोदी , राष्ट्रपतिः द्रौपदी मुर्मू च तस्य अक्षरकुलपतेः देहवियोगे अनुशोचिवन्तौ। साहित्यलोकस्य राष्ट्रियनष्ट इति राष्ट्रपतिना सामाजिकमाध्यमे सूचितम्। पार्श्ववत्कृतानां निश्शब्दजनानां कृते एम् टि वर्येः स्वतूलिकां चालिवानिति प्रधानमन्त्री 'एक्स्' माध्यमे सूचितवान्।

   १९३३ तमे वर्षे पालक्काट् जनपदे कूटल्लूर् ग्रामे एम् टि वासुदेवन् नायर् वर्यः जनि

मलभत। बाल्य एव कथाः विरचय्य साहित्यरङ्गं प्रविवेश। २४ तमे वयसि 'नालुकेट्ट्' इति तस्य प्रथमा आख्यायिका प्रसिद्धीकृता। पञ्चविंशत्यधिकाः कथासमाहाराः,उपदशसंख्याकाः आख्यायिकाः , उपपञ्चाशत् चलनचित्रकथाः च  अनेन रचिताः। 

  केरल-केन्द्रअकादमीसाहित्यपुरस्काराः , एष़ुत्तच्छन् पुरस्कारः इत्यादयः अनेकाः पुरक्काराः तेन लब्धाः।  चलनचित्रकथायाः कृते चतुर्वारं सः देशीयपुरस्कारेण सम्मानितः। १९९५ तमे वर्षे ज्ञानपीठपुरस्कारः,२००५ तमे पद्मविभूषणं , २०१३ तमे जे सि डानियल् पुरस्कारश्च लब्धाः। एम् टि वर्येण निदेशनं कृतास्य 'निर्माल्यम् इति चलच्चित्रस्य राष्टेरपतेः सुवर्णपतकं लब्धम्। 

  ७० वर्षाणि साहित्यलोके विराजमानः एम् टि इति द्व्यक्षरेण सूच्यमानः अक्षरकुलपतिः कैरलीसाहित्यस्य उत्तुंगश्रृङ्गे विराजते।