OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 12, 2024

 राजस्थानस्य कूपे पतितस्य बालकस्य निधनम्, ५६ होराणां  रक्षाकर्मं निष्फलम्।

   राजस्थानराज्ये कूपे पतितः ५ वर्षीयः बालकः मृतः। ५६  होराभ्यः अधिकं कालं यावत् रक्षणप्रयत्नः कृतः, किन्तु अन्ते बालकस्य प्राणान् रक्षितुम् अशक्यमभवत्।

    सोमवासरे सायं बालकः आर्यः कालीघाट्ग्रामस्य एकस्मिन् क्रीडाक्षेत्रे क्रीडन् आसीत्। तदा सः अकस्मात् नालीकूपे पतितः। प्रारम्भे तु रज्जु-साधनादिभिः तम् उद्धर्तुं प्रयत्नः कृतः, किन्तु यथोचितं फलम् न प्राप्तम्। बालकस्य प्राणानां पालनाय नलिकाद्वारा प्राणवायुः प्रदत्तः।

    राष्ट्रियदुरन्तनिवारणसेना (NDRF), राज्यदुरन्तनिवारणसेना (SDRF), नागरिकरक्षण-दलानि च  रक्षणकार्ये सम्मिलितानि आसन्। अन्ते, चिकित्सालयं प्रेषितस्य बालकस्य प्राणरक्षणं कर्तुम् अशक्यमभवत्।