OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 22, 2024

 जय्पुरे ट्रक् यानं पाकवातकवाहकेन सह संघट्टितम् - १४ जनाः मृताः।

बहूनि यानानि अग्निसात्कृतानि। 

ट्रक्दुरन्तस्य दृश्यम्। 

जयपुरं> राजस्थाने   जयपुरं-अजमीर राजमार्गे शुक्रवासरस्य प्रत्युषसि जयपुरे रासवस्तुसम्भृतं ट्रक् यानं अन्येन एल् पि जि सम्भृतयानेन सह संघट्य जाते अग्निप्रकाण्डे १४ जनाः मृताः। ४५ जनाः आहताः। 

   एल् पि जि सम्भृतयाने ट्रक् यानस्य आघातेन पाकवातकस्य बहिः प्रसरणमभवत्। समीपस्थानि ३७ यात्रावाहनानि अग्निसात्कृतानि च। ३०० मीटर् परिधौ अन्तर्भूतानि यानानि पूर्णतया अग्निसात्कृतानि। 

  दुर्घटनायामस्यां राष्ट्रपतिः प्रधानमन्त्री राज्यमुख्यमन्त्री इत्यादयः अनुशोचं प्रकाशितवन्तः।