OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 7, 2024

 अग्निप्रकाण्डात् पुनरुज्जनितः 'नोत्रदाम्' आराधनालयः अद्य उद्घाट्यते। 


पारीस्> पारीसे विश्वप्रसिद्धः नोत्रदाम् क्रैस्तवाराधनालयः नवीकरणानन्तरम् शनिवासरे उद्घाट्यते। २०१९ तमे वर्षे दुरापन्नन अग्निप्रकाण्डेन  विनाशिते देवालये पञ्च वर्षाभ्यामनन्तरं गायकसंघस्य गानमुन्नेष्यति। आमन्त्रितैः १५०० अतिथिभिस्सह मुख्यपुरोहितः आर्च् बिषप् लोरन्ट् उल्रिच् देवालयस्य अन्तः प्रवेक्ष्यति। 

  रविवासरे प्रवृत्तमानस्य उद्घाटनदिव्यबलेः बलिपीठप्रतिष्ठाकार्यक्रमस्य चानन्तरं सामान्यजनानां प्रवेशः साध्यः भविष्यति। ८६० संवत्सराधिकं पुरातने अस्मिन् देवालये अग्निप्रकाण्डात्पूर्वं प्रतिदिनं १. ३कोटि जनाः सन्दर्शनं कृतवन्तः।

  शनिवासरे सम्पद्यमाने प्रवेशकार्यक्रमे यू एस् राष्ट्रस्य नियुक्तराष्ट्रपतिः डोनाल्ड ट्रम्पः, युक्रेनराष्ट्रपतिः व्लादिमिर् सेलन्स्की इत्यादयः फ्रञ्च राष्ट्रपतेः इम्मानुवल् मक्रोणस्य आमन्त्रणं स्वीकृत्य देवालयं प्राप्स्यन्ति।