OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 16, 2025

 छात्राणाम् अध्ययनविप्रतिपत्तिः - प्रधानाध्यापकस्य आत्मदण्डनम्। 

अमरावती> अध्ययने छात्राणां विप्रतिपत्तिः अध्यापकानां च्युतिरिति सन्देहेन आत्मदण्डनं विधाय प्रधानाध्यापकः। आन्धप्रदेशे  विष़ियनगरं जनपदस्थे 'जिल्ला परिषद्' उच्चविद्यालयस्य प्रधानाध्यापकः चिन्त रमणः विद्यालये छात्रसभायां प्रायश्चित्तरूपेण आत्मदण्डनमकरोत्। 

  छात्राः गृहपाठं न कुर्वन्ति  इत्येतत्  शिक्षकाणाम् अपराधः इति प्रकल्प्य सर्वेषां कृते चिन्त रमणः आत्मपीडनाय सन्नद्धः अभवत्। प्रायश्चित्तानन्तरं सः छात्रान् उपदिदेशश्च। 

  चिन्त रमणेन निगदितं यत् यदि अस्माभिः अनुशासनानि विधीयन्ते तर्हि रक्षितारः प्रतिषेधेन आगत्य कलहं कुर्वन्ति। एतत्तु अध्यापकेभ्यः क्लेशाय भवति। अत एव आत्मदण्डः विहितः।