OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, March 28, 2025

 मेस्युपेता 'अर्जन्टीना' भारतमागच्छति।

 ओक्टोबरे केरले पादकन्दुकक्रीडा।

अनन्तपुरी> विश्वचषकपादकन्दुकविजेता अर्जन्टीनादलः सौहृदस्पर्धायै ओक्टोबरमासे भारतमागमिष्यति। दलस्य आगमनं दलस्य प्रस्तुतिकर्ता एछ् एस् बी सी नामकसंस्था  गतदिने प्राख्यापयत्। लयणल् मेसी अपि क्रीडकसंघे भविष्यतीति संस्थया निगदितम्। इदानीं केवलं केरलमेव अतिथिरूपेण वर्तते। 

  पूर्वम् अर्जेन्टीना वेनिस्वेलया सह सौहृदस्पर्धायै २०११ तमे वर्षे भारतमाजगाम। तदानीं कोल्कोत्तायामासीत् स्पर्धा। १४ संवत्सराणामनन्तरं विश्वचषकविजेतारः इति परिवेषेणैव मेसी संघश्च आगमिष्यन्ति।