OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 23, 2025

 मण्डलपुनर्निर्णयः शिलीकर्तव्यः - संयुक्तकर्मसमितिः। 

चेन्नई> जनसंख्यानुसारं भारते लोकसभामण्डलानि पुनर्निर्णेतुं केन्द्रप्रशासनेन विधत्तः निर्णयः २५ वर्षाणियावत् शिलीकर्तव्यमिति तमिलनाडु मुख्यमन्त्री एं के स्टालिन् इत्यस्य नेतृत्वे समाकारितेन संयुक्तकर्मसमिति इति संघटनेन अपेक्षितम्। समित्यामस्यां  कन्द्रप्रशासनस्य विपक्षदलानां राज्यस्थानां मुख्यमन्त्रिणः अन्तर्भवन्ति। तमिलनाटं विना केरलं तेलङ्कानं, पञ्चाबः, कर्णाटकं, ओडीशः इत्येतेषां राज्यानां मुख्यमन्त्रिणः नेतारः च ह्यः आयोजिते सम्मेलने भागं गृहीतवन्तः।