OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 16, 2025

 अशीति समारोहः गुरुवन्दनञ्च।

    पट्टाम्पि महाविद्यालये दशवर्षाधिककालं वृत्तिमावहन्नासीत् डो . के. जी. पौलोस् वर्यः तथा तस्य पत्नी सरला च। दम्पत्योः अशीति जन्मदिनपर्व तथा तच्छिष्याणां सङ्गमश्च पट्टाम्पि कलालयस्य  सभासदने संयोज्यते। अस्य मासस्य सप्तविंशत्यां दिने आघोष: आयोजयिष्यते। गुरुवन्दनम् पट्टाम्पि इति नाम्ना समारोहः समायोजितः अस्ति।

  तस्मिन् दिने प्रातः दशवादने केरलस्य तद्देशविकसनमन्त्रालयस्य मन्त्री एम्. बी राजेषः  गुरु वन्दनम् उद्धाटयिष्यति। केरलविधानसभासदस्यः मुहम्मद् मुहसिन् अध्यक्षः भवेत्। मलयालं विश्वविद्यालयस्य कुलपतिः डो. एल्. सुषमावर्या मुख्यं भाषणं करिष्यति।

  दम्पत्योः शिष्याः पट्टाम्पी पौरमुख्याश्च अशीत्याघोषस्य सङ्घाटकाः भवन्ति। पट्टाम्पि महाविद्यालयस्य अध्यापकाः छात्राश्च आघोषस्य विजयाय कटीबद्धाश्च वर्तन्ते।